________________
४०८ प्रमाणवात्तिकस्ववृत्तिटीका (११२२८) पुरुषसंस्कारादर्थवन्तः स्युः। तत्संस्कार्यतैव चैषां पौरुषेयता युक्ता नोत्पत्तिः। तत एवार्थविप्रलंभात्। उत्पन्नोप्यन्यथा समितो नोपरोधी तदन्यपुरुषधर्मवत् । तदयं निवर्तमानः स्वकृतसमयसंभवामर्थप्रतिभा निवर्त्तयति । तत्कुतस्तन्निवृत्या सत्यार्थता। अथ पुनः (1) उत्पत्तिरेव पौरुषेयता न समयाख्यान (1) विपर्य (?एवमपि)
अर्थज्ञापनहेतुर्हि संकेतः पुरुषाश्रयः ॥(२२८।।)
संकेतेनार्थप्रतिपादनायोगात्। ___ तस्मादतर्थकाः स्वतः शब्दास्तेनर्थकास्सन्तः पुरुषसंस्कारात् पुरुषसंकेतादर्थवन्तः । अथ माभूदनर्थकत्वमिति पुरुषसंस्कारापेक्षयार्थवत्त्वन्तेषामिष्यते। तदा पौरुषेयतयैव स्यात्। यस्मात् तत्संस्कार्यतैव पुरुषसंस्कार्यतैव चैषां शब्दानां पौरुषेयता युक्ता। न पुरुषादुत्पत्तिः। किं कारणं (।) तत एव पुरुषसमयादेवार्थविप्रलम्भाद् विसम्वादात्। न पुरुषादुत्पत्तेविप्रलम्भः । यस्मादुत्पन्नोपि पुरुषाच्छब्दोन्यथा समित इति मिथ्यार्थताविरोधेन यथाभावं समितः संकेतितः। नोपरोधी न विप्रलम्भकः । तदन्य इति शब्दादन्यः पुरुषधर्म उन्मेषनिमेषादिः स्वतोनर्थकोपि यथाभावं पुरुषेण समितो न विप्रलम्भकस्तद्वत् ।
___उपसंहरन्नाह। तदिति। तस्मादयं पुरुषो निवर्तमानः स्वकृतसमयात् .. सम्भव उत्पादो यस्या अर्थप्रतिभायाः अर्थबुद्धेस्तामपि निवर्तयति। तदिति तस्मात् । कुतस्तनिवृत्त्या तस्य पुरुषस्य निवृत्त्या सत्यार्थता किन्त्वानर्थक्यमेव स्यात्।
एतेन यदुच्यते।
यत्पूर्वापरयोः कोटयोः परैः साधनमुच्यते। तन्निराकरणं कृत्वा कृतार्था वेदवादिनः ।। पूर्वा वेदस्य या कोटि: पौरुषेयत्वलक्षणा (1)
परा विनाशरूपा च तदभावो हि नित्यतेति।' तदपास्तं सत्यपौरुषेयत्वे नित्यत्वे च वेदस्यानर्थक्येनाकृतार्थत्वात् । (६) अथ पुनरुत्पत्तिरेव पौरुषेयता न समयाख्यानन्न संकेतकरणं पौरुषेयता' तेनापौरुषेयत्वादेव यथार्थो वेद इति भावः।
एवमप्यर्थज्ञापनहेतुराभिव्यक्तिहेतुः संकेतः पुरुषाश्रय पुरुषेच्छानुरोधी
1 Slokavartika.