________________
७. अपौरुषेय - चिन्ता
यथा रागादिपरीतः पुरुषो मृषावादी दृष्टस्तथा दयाधर्मतादियुक्तः सत्यवाक् । तद्यथा वचनस्य पुरुषाश्रयात् मिथ्यार्थता । तथा सत्यार्थतापीति । स निवर्तमानस्तामपि निवर्त्तयतीत्यानर्थक्यं स्यात् । विपर्ययो वा । न हि शब्दाः प्रकृत्यार्थवन्तः समयात् ततोर्थख्यातेः । कायसं ज्ञादिवत् । अप्रातिकूल्यन्तु योग्यता ( 1 ) समये तदिच्छा प्रणयनात् । निसर्गसिद्धेष्विच्छावशात् प्रतिपावनाऽयोगात् । तेन (र्थ ) का:
४०७
हि कार्येर्थे वेदस्य प्रामाण्यमिष्यते । कार्यश्चार्थानुष्ठेय एव, स च भावित्वेनाविद्यमानत्वान्न चोदनाज्ञानकालभावीति । तत्कथमविद्यमानविषयत्वाच्चोदनाज्ञानस्य न मिध्यात्वं । सर्वविकल्पानां च पूर्वमवस्तुविषयत्वस्य प्रतिपादितत्वात् तेनापि चोदनाज्ञानस्य मिथ्यात्वमेव । किं च । लोकवेदयोर्वर्णाः पदानि चाभिन्नान्येव वाक्यभेदस्तु केवलमिष्यते । लोके च पदानामर्थः संकेतवशात् । लौकिकपदार्थश्च वैदिकानां पदानान्तेन पौरुषेय एवार्थसम्बन्धः । लौकिकपदार्थद्वारेण च वैदिकवाक्यार्थावगमो भवतीति पौरुषेय एवासौ लौकिकवाक्य इव । लोके च पदान्यनेकार्थानीति वैदिकवाक्यस्याप्यनेकार्थतासम्भवाद् विपरीतार्था शंका न निवर्त्तत इति संशयलक्षणमप्रमाण्यं वेदस्येति ।
यथेत्यादिना कारिकार्थं व्याचष्टे । रागादिपरीतो रागादियुक्तः । दयेति करुणा । सैव सात्मीभूता धर्मता । आदिशब्दात् प्रज्ञाश्रद्धादि । तैर्युक्तः । तत्तस्माद् यथा वचनस्य पुरुषाश्रयात् मिथ्यार्थता । तथा सत्त्यार्थतापि । स इति पुरुषः । तामपि सत्त्यार्थतान्निवर्त्तयति । न केवलं मिथ्यार्थतां । इति पुरुषनिवृत्तौ तद्धर्मयोः सत्त्यार्थत्वमिथ्यार्थत्वयोनिवृत्तावानर्थक्यं वेदे स्यात् ।
अथ पुरुषनिवृत्तावपि सत्त्यार्थतेष्यते । तदा सत्यार्थताविपर्ययो मिथ्यार्थता वा स्यात् ।
(५) स्यान्मतं ( 1 ) न पुरुषापेक्षया शब्दानामर्थवत्ता किन्तु स्वभावत एवे - त्याह । न हीत्यादि । प्रकृत्या स्वभावेनार्थवन्तः ( 1 ) किं कारणं (1) समयात् संं केतात् । ततः शब्देभ्योर्थख्यातेरर्थप्रतीतेः । कायसंज्ञादिवत् । हस्तविकाराक्षिनि'कोचादयः कायसंज्ञा । यथा तत्र समयात् क्वचिदर्थप्रतिपत्तिस्तद्वत् । यदि पुनः स्वभावत एव शब्दा अर्थप्रकाशकाः स्युस्तदा न संकेतमपेक्षेरन् । तस्मान्न स्वतोर्थप्रकाशनयोग्यता शब्दानां (1) किन्तर्ह्यप्रातिकूल्यन्तु यथासंकेतं प्रवृत्ति - 147a रेव शब्दानां योग्यता । किं कारणं (1) समये संकेतकाले तस्य संकेतकर्त्तुर्यत्र नियोक्तुमिच्छा तया यथेष्टं शब्दानां प्रणयनात् प्रवृत्तेः । यदि पुनर्निसर्गसिद्धाः स्वभावसिद्धाः क्वचिदर्थे शब्दाः स्युस्तदा निसर्गसिद्धेषु पुरुषेच्छावशाद् यथेष्टं