SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ प्रमाणवात्तिकस्ववृत्तिटीका ( ११२२८) पुरुषनिवृत्तौ सत्त्यार्थत्वमिष्यते मिथ्यार्थत्वं किन्नेष्यत इत्युच्यते। परमार्थतस्तु सत्त्यार्थत्वमिथ्यार्थयोर्निवृत्तेरानर्थक्यादनुत्पत्तिलक्षणमेवाप्रामाण्यं । पुरुषनिवृत्त्या तेन (1) ४०६. "ममासिद्धमितीदं चेद् वेदाज्जातेवबोधने । वक्तुन्न द्वेषमात्रेण युज्यते सत्यवादिनेति । ( ६२, ६३) निरस्तं। वेदात् स्वभावतोर्थावबोधस्यानुत्पत्तेः । (२) किञ्च ( 1 ) वर्णानामवाचक रूपत्वं प्रत्येक समस्तानां चावाचकत्वाद् वर्णरूपश्च वेद इति कथमतोर्थज्ञानं । नन्वगृहीतसमयस्यापि वाक्यादुच्चारितात् कोप्यर्थोनेनोक्त इति सन्देहो दृश्यते । स चैवं स्याद यद्यर्थप्रतिपादने शब्दस्य स्वभावेन शक्तिः स्यात् । एवन्तहि सन्देहलक्षणमस्याप्रामाण्यं स्यात् । इष्टेनिष्टेचार्थे प्रकाशनशक्तिसम्भवात् । यद चास्य स्वभावत एव सा शक्तिः किं संकेतेन । यथा दीपस्यार्थप्रकाशने शक्तस्येन्द्रियापेक्षा तथा शब्दस्यापि संकेतापेक्षेति चेत् । न । प्रदीपेन्द्रिययोः प्रत्येकमभावेप्यर्थप्रकाशकत्वाभावात् । तत्रान्योन्यापेक्षत्वं युक्तं । नैवं शब्दशक्तिसंकेतयोः । संकेतमात्रेणैवार्थप्रतीतेरुत्पत्तेः । तस्मान्न स्वभावतः शब्दोर्थप्रतिपादनसमर्थ इत्युत्पत्तिलक्षणमप्रामाण्यम् । I (३) नन्वग्निहोत्रञ्जुहुयात् स्वर्गकाम इत्यादि वाक्येष्वग्निहोत्रादेः स्वर्गादिसाधनोपायत्वं प्रतीयत एवेति कथमनुत्पत्तिलक्षणमप्रामाण्यं । सत्त्यमेतत् (1) केवलं प्रतीतिर्ह्यप्रतीतेर्बाधिका । न तु मिथ्यात्वस्य । तस्यापि प्रतीते: । तेन किमेभिर्वाक्यैरग्निहोत्रादिः स्वर्गसाधनानुपाय एवोपायतया 146b प्रदर्श्यतेऽथोपाय एवेति मिथ्यात्वाशंका न निवर्त्तत एव । बाधकप्रमाणाभावादपौरुषेयत्वस्य मिथ्यार्थत्वेन सह विरोधाभावच्च । दृष्टश्चापौरुषेयाणाम्वितथज्ञानहेतुत्वं । तद्यथा ज्योत्स्नादीनां शुक्लवस्त्रादौ पीतज्ञानहेतुत्वं । तेन चोदनार्थान्यथाभावोनुमानतः क्रियत इति कथन्तज्ज्ञानेन बाधा । रसादिज्ञानानान्तु तृप्त्यादिकार्याविसम्वादा-देव प्रथमं प्रामाण्यनिश्चयादन्यदा त्वभ्यासादिना स्वत एव प्रामाण्यनिश्चयो युक्त इति न मिथ्यात्वाशङ्का । वेदे तु नैव कदाचिदप्यविसम्वादः प्रतिपन्न इति कथमन्यदापि स्वतः प्रामाण्यनिश्चयः । तेन सत्यपि विज्ञाने प्रतिभादेर्यथैव हि स्वातन्त्र्यान्न प्रमाणत्वं तथा वेदेपि दृश्यतां । (४) किंच (1) चोदनार्थज्ञानस्याविद्यमानोपलम्भन 'रूपत्वात् मिथ्यात्वं । तथा
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy