________________
७. अपौरुषेय - चिन्ता
४०५
न खलु सर्व एवागमः संभाव्यविप्रलम्भो विप्रलम्भहेतूनां दोषाणां पुरुषाश्रयाद (1) अपौरुषेयं सत्यार्थमित्येके । कारणाभावो हि कार्याभावं साधयतीति । एवंवादिनः तानेव प्रति ।
१. पूर्वपक्षनिरास :
——
गिरां सत्यार्थहेतूनां गुणानां पुरुषाश्रयाद् ।। ( २२७५) अपौरुषेयं मिथ्यार्थ किन्नेत्यन्ये प्रचक्षते ।
तदभावे तु तद्दृष्येद् वैदिकं न कदाचन । तेनेतरप्रमाणैर्या चोदनानामसंगति: । तयैव स्यात् प्रमाणत्वमनुवादत्वमन्यथा । चोदनार्थान्यथाभावं कुर्वतश्चानुमानतः । तज्ज्ञानेनैव यो बाध: स कथं विनिवार्यते । (८) तन्मिथ्यात्वादबाधश्चेत् प्राप्तमन्योन्यसंश्रयं ।
नानुमानादतोन्यद्धि बाधकं किंचद स्ति ते । " ( 80 )
न चान्याप्रमाणैर्वेदार्थस्याग्रहेऽभावो रसादिवत् । अथ रसादेरपरया रसबुद्धया ग्रहात् पूर्विकाया रसबुद्धेः प्रामाण्यम्वेदार्थेप्येवम्भविष्यति । तदाह ॥ " न चान्यैरग्रहेर्थस्य स्यादभावो रसादिवत् । तद्धियैवार्थबोधश्चेत्तादृग्धर्मे भविष्यति । ममासिद्धमितीदं चेद् वेदाज्जातेऽवबोधने ।
वक्तुन्न द्वेषमात्रेण युज्यते सत्यवादिने" ति । ( ६१,६२)
न खल्वित्यादिना कारिकार्थमाचष्टे । सर्व एवेति पौरुषेयो's पौरुषेयश्च । सम्भाव्यविप्रलम्भः सम्भाव्य अशंकनीयो विप्रलम्भो विसम्वादोस्येति । किन्तु पौरुषेय एव सम्भाव्यविप्रलम्भः । विप्रलम्भहेतुनां विसम्वादहेतुनान्दोषाणां पुरुषाश्रयात्। (२२७)
यत्पुनरपौरुषेयन्तत्सत्यार्थमित्येके । यस्माद् वेदेषु मिथ्यात्वकारणानां पुरुषाणामभावः कार्यस्य मिथ्यात्वस्याभावं साधयतीत्यपौरुषेयं सत्यार्थमिति 2 ( 1 )
य एवम्बादिनस्तानेव मी मांस कान् प्रत्यन्ये प्रचक्षते । परमुखेन ( ? न ) शास्त्रकार एवाह । गिरां सत्त्यत्वस्य ये हेतवो गुणास्तेषां पुरुषाश्रयादपौरुषेयेषु वाक्येषु पुरुषनिवृत्त्या सत्त्यत्वकारणस्य गुणस्य निवृत्तेः कार्यस्यापि सत्त्यत्वस्य निवृत्तिरित्यपौरुषेयम्वाक्यं मिथ्यात्वं किन्न भवति ।
( १ ) एतदुक्तम्भवति । शब्दे सत्यत्त्वमिथ्यात्वयोः पुरुषायत्तत्वाद् यदि
146a