SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ___ प्रमाणवात्तिकस्ववृत्तिटीका (११२२७) ___ स तु क्षीणदोषो दुरन्वयो यदुपदेशाद'यं प्रतिपद्यते। मा भूत् पुरुषाश्रयं वचनमागमः प्रणेतुर्दुरन्वयात्। तेनायमों (1) मिथ्याहेतुभिर्दोषैः पुरुषपरिगृहीतत्वादिति। अथवा दोषाणामिति कर्मणि षष्ठी दोषाणां पुरुषेणाश्रयात् परिग्रहात् । अपौरुषेयम्वचस्सत्यार्थम्मिथ्यात्वहेतोर्दोषस्याभावादिति केचित् मी मां स का प्राचक्षते। एतदुक्तम्भवति। त्रिविधमप्यप्रामाण्यम्मिथ्यात्वाज्ञानसङशयलक्षणे वादे नास्त्येव । यतः शब्दानां द्विविधः स्वभावो निसर्गसिद्ध औपाधिकश्च तत्र निसर्गसिद्धो यो यथार्थप्रतिपादकत्वम् (1) अयथार्थप्रतिपादकत्वं पुनरौपाधिकः। स्वभावः पुरुषाधीनत्वात् । तदाह। "शब्ददोषोद्भवस्तावद् वक्त्र्यधीन इति स्थितं । तदभावः क्वंचित् तावद् गुणवद्वक्कत्वतः। (६२) तद्गुणैरपकृष्टानां शब्दे संक्रान्त्यसम्भवात्। यद्वा वक्तुरभावेन न स्युर्दोषा निराश्रया” इति' (६३) तेन वे दे पुरुषनिवृत्तौ मिथ्यात्वनिवृत्तिः। नाप्यनुत्पतिलक्षणमप्रामाण्यम्वेदादर्थावगतेः। नापि संशयलक्षणमप्रामाण्यं वेदादर्थगतौ संशयस्याप्रतिभासनात्। तदाह। "एवंभूतस्य वेदस्य ज्ञानोत्पत्तिं च कुर्वतः । स्वरूपविपरीतत्वसंशयौ भाष्यवारितावि"ति ॥२ यतश्चाप्रामाण्यं त्रयन्निवृत्तं। निसर्गसिद्धश्च ययार्थप्रतिपादनलक्षण : स्वभावो वेदस्यास्ति तस्मात् स्वत एवास्य प्रामाण्यमर्थप्रतिपादकत्वात । यतश्च शब्दे वक्तृदोषेण बाधदुष्टकारणत्वलक्षणस्य दोषस्य सम्भवस्तेन वेदे पुरुषनिवृत्तौ दोषनिवृत्ते : स्वत:। प्रामाण्यापवादकयोबधिकारणदुष्टत्वज्ञानयोनिवृत्ते प्रामाण्याशङ्का । तदाह। १“तत्रापवादनिर्मुक्तिर्वक्त्र्यभावाल्लघीयसी। . वेदे तेनाप्रमाणत्वं नाशङ्कामपि गच्छति । (६८) प्रामाण्यं पौरुषेये तु प्रमाणान्तरभावतः । 1. Slokavartika, Choda. 2. Ibid.
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy