________________
७. अपौरुषेय-चिन्ता
४०३
च द्वयोः प्राधान्ये एककनिर्देशः परभागभाक् । उभयथाप्येकस्य निर्देशे न विरोधः। प्राधान्यं पुनस्तदुपादानत्वेन। तत्प्रहाणे दोषाणां प्रहाणात् । तस्मात् सम्भवति सत्कायदर्शनजन्मनां दोषाणां तत्प्रतिपक्षनरात्म्यदर्शनाभ्यासात् प्रहाणं।
9-अपौरुषेय-चिन्ता
(१) सामान्येन निरासः गिराम्मिथ्यात्वहेतूनां दोषाणां पुरुषाश्रयात् ॥ (२२६॥) अपौरुषेयं सत्यार्थमिति केचित् प्रचक्षते ।
हेतुनिर्देशे सति स्यान्न हेतुमात्रनिर्देशे। किं कारणम् (1) अनेकस्मादिन्द्रियविषयोऽयोनिशोमनस्कारकलापाज्जन्म येषान्दोषाणान्तेषामेकस्मात् मोहात् सत्कायदृष्टेश्चोत्पतिविरोधात्। तस्मादन्यकारणसम्भवेपि प्राधान्यं गृहीत्वा मोहसत्कायदृष्ट्योः कारणत्वमुक्तमिति गम्यते ।
यदि चान्यो मोहोन्या च सत्कायदृष्टिस्तयोश्च प्राधान्यन्तदा न च द्वयोर्मोहसत्कायदृष्टयोः प्राधान्ये सत्येककनिर्देशः । क्वचित् मोहस्यैव निर्देशः क्वचित् सत्कायदृष्टेरेवेत्यर्थः। न परभागभाक् शोभाभाक् वक्तुरकौशलमेवावहतीति यावत्। यदा पुनरनयोर्न स्वभावभेदः। तदा मोहशब्देन सत्कायदृष्टिशब्देन चोभयथाप्येकस्यार्थस्य पर्यायेण निर्देशेन न विरोधः प्राधान्यस्य। प्राधान्यं पुनस्सत्कार्यदर्शनस्य तदुपादानत्वेन दोषाणामुपादांनत्वेन (1) तच्चानन्तरमेव प्रतिपादितं । प्रतिपादयिष्यते च द्वितीये परिच्छेदे।
तस्य च सत्कायदर्शनस्य प्रहाणे सति दोषाणां प्रहाणतः प्राधान्यं । यत एवन्तस्मात् सम्भवति सत्कायदर्शनाज्जन्म येषान्दोषाणान्तेषां तस्य सत्काय- I45b दर्शनस्य प्रतिपक्षो नैरात्म्यदर्शनन्तस्याभ्यासात् प्रहाणं । ___ सच क्षीणदोषः पुमानौद्देशिको दुरन्वयो दुर्बोधो यदुपदेशाद् यस्य क्षीणदोषस्योपदेशावयं प्रवृत्तिकामः प्रतिपद्येत। तेनोपदिष्टमर्थमनुतिष्ठेत् ॥०॥ (२५)
मा भूत् पुरुषाश्रयं पुरुषहेतुकम्वचनमागमः। किं कारणम (1) अनन्तरोक्तेन न्यायेनागमप्रणेतुर्दुरन्वयत्वात्। दुर्बोधत्वात् ।
गिराम्वचसां मिथ्यात्वस्य मृषार्थत्वस्य ये हेतवो दोषा रागादयस्तेषां (1) कर्तरि चेयं षष्ठी। आश्रयणमाश्रयः । पुरुषस्याश्रय इति समास :। पुरुषशब्दाच्च कर्मणि षष्ठी। न चोभयप्राप्ती कर्मणीति नियमः। शेष विभाषेति विकल्पनात् ।