________________
४०२
प्रमाणवात्तिकस्ववृत्तिटीका (१।२२६) गिणः क्वचिद् द्वेषः। आत्मात्मीयानुपरोधिन्युपरोधप्रतिघातिनि च तदभावात् । तस्मात् समानजातीयाभ्यासजमात्मदर्शनमात्मीयग्रहं प्रसूते। तौ च तत्स्नेहं स द्वषादीनिति। सत्कायदर्शनजाः सर्वदोषाः। तदेवाज्ञानमित्युच्यते।
मोहो निदानं दोषाणामत एवाभिधीयते ॥ (२२५।।) - सत्कायदृष्टिरन्यत्र तत्प्रहाणे प्रहाणतः।।
मोहं दोषनिदानमाह (1) अमूढस्य दोषानुत्पत्तेः। पुनरन्यत्र सत्कायवृष्टिः । तच्च तत् प्रधाननिर्देशे सति स्यादनेकजन्मता दोषाणां एकोत्पत्तिविरो (धा)त् । न
आत्मात्मीयत्वेन तदनुग्राहकत्वेन परिकल्प्य ग्रहः तेन विना न क्वचित् विषये
स्नेहः। न चाननुरागिणः आत्मात्मीयादिस्नेहरहितस्य क्वचिद् द्वेषः। अनुनय145a मन्तरेण तस्याभावात्। किङ्कारणम् (1) आत्मात्मीयेत्यादि । आत्मात्मीययो
रनुपरोधिन्यप्रतिकूलवत्तिनि। उदासीनपक्षे। तदभावात् तस्य द्वेषस्याभावात् । उपरोधप्रतिघातिनि चेति। आत्मात्मीयत्वेन गृहीतस्य य उपरोधः पीडा। तत्प्रतिघातिनि तत्प्रतिषेधं कुर्वति । मित्रपक्षे तदभावात्। द्वेषाभावात् । कित्वास्मात्मीयस्नेहविषयभूतविरोधेन। यः स्थितः प्रतिकूलवर्ती। तत्रैव द्वेषः । तस्मानात्मात्मीयस्नेहमन्तरेण द्वेष इति । तस्मादित्यादिना निगमनं । यत एवन्तस्मात्तौ चेति। आत्मदर्शनात्मीयग्रहौ । स्नेहं प्रसुवाते इति वचनविपरिणामेन सम्बन्धः । स च स्नेहो द्वेषादीन् प्रसूते जनयति । -तयोस्तात्मदर्शनात्मीयग्रहयोः को हेतुरित्याह। समानेत्यादि। समानजातीयन्त देवात्मदर्शनन्तस्याभ्यासः पौनःपुन्येनादिकालमुत्पत्तिः। तद्वासना च। तस्माज्जातमात्मदर्शनमात्मीयग्रहं प्रसूते। तस्मात् सत्कायवर्शनजाः सर्वे क्लेशाः। (२२३-२४) .
तदेव च सत्कायदर्शनमज्ञानमविद्येत्युच्यते सिद्धान्ते।
येनैव सत्कायदर्शनमेवाऽविद्याऽत एव कारणात् मोहोनिवानं प्रधानकारणदोषाणां रागादीनामभिधीयते सूत्रान्त रे'-"अविद्याहेतुकाः सर्वक्लेशा" इति सत्कायदृष्टिर्दोषाणां निदानमन्यत्र सूत्रान्तरेभि धीयते । कस्मात् । तत्प्रहाणे सत्कायदृष्टेः प्रहाणे दोषाणां प्रहाणतः। “मोहन्दोषनिदान" दोष कारणमाहुर्बुद्धा भगवन्तः । कस्माद् (1) अमूढस्याज्ञानरहितत्य दोषानुत्पत्तेः पुनरन्यत्र प्रदेशे सत्कायदृष्टिन्दोषनिदानमाहुः। तच्चत-त्कारणत्वं मोहस्य सत्कायदृष्टश्च प्रधान
'बुद्धवचने