________________
६. आगम-चिन्ता
४०१
अभूतार्थश्च दोषा न प्रतिपक्षसात्म्यवाचिनः। तस्मात् पुनर्न दोषोत्पत्ति (र) यत्नेपि बुद्धेर्गुणपक्षपाते (न) प्रतिपक्ष एव यत्नाधानात् परीक्षावतो विशेषेणादुष्टात्मनः।
ख. सत्कायदर्शनं दोषकारणम् कः पुनरेषां दोषाणां प्रभवो यत्प्रतिपक्षाभ्यासात् प्रहीयन्ते ॥
सर्वासां दोषजातीनां जातिः सत्कायदर्शनात् । (१२२४॥)
साविद्या तत्र तत्स्नेहस्तस्माद् द्वेषादिसम्भवः। न हि नाहं न ममे ति पश्यतः परिग्रहमन्तरेण क्वचित् स्नेहः। न चाननुरा
वासनाबलभावि। तदेवंभूतरागादिबीजाश्रयस्य विज्ञानसन्तानस्य विपर्ययोपादानात् रागादिविपर्ययलक्षणस्य प्रतिपक्षस्य परिग्रहान्न स्यान्नोत्पद्येत। न तु . भूतार्थमविपरीतविषयं न भवेत्। किन्तु भवे देव। किं कारणम् (1) वस्तुबलप्रवृत्तः। यथावस्थितवस्तुसामर्थ्यनोत्पत्तेः। दोषसात्म्येपि तावत् स्थितस्य । प्रमा णान्यनित्यादिभताकारग्राहीणि। प्रतिपक्षमार्गमावहन्ति । (२२२-२३) __किं पुनर्विपश्यना सात्मनि स्थितस्य । अभूतार्थश्च दोषा रागादयः । आत्मात्मीयाध्यारोपितेर्थे प्रवृत्तेः। ते प्रतिपक्षस्य भूतार्थस्य यत् सात्म्यं स्वभावत्वन्तस्य वाचिनो न भवन्ति । यत एवन्तस्मान्न पुनः प्रहीणदोषाणां दोषोत्पत्तिः। दोषोत्पादनयत्नेपि बुद्धेर्गुणपक्षपातेन कारणेन रागादिप्रतिपक्ष एव यत्नाधानात् प्रयत्नस्य करणात् । कस्य परीक्षावतो युक्तया विचारकस्य दोषसात्म्येपि तावत् स्थितस्य । विशेषेणातिशयेन गुणेष्वेव यत्नाधानमदुष्टात्मनः प्रतिपक्षसात्मनि स्थितस्य । ___कः पुनरेषान्दोषाणां प्रभव उत्पत्तिकारणं। प्रभवत्युत्पद्यतेस्मादिति कृत्वा। यस्य दोषहेतोः प्रतिपक्षाभ्यासेन प्रहीयंते।
उत्तरमाह। सर्वासामित्यादि। दोषजातीनान्दोषप्रकाराणां जातिरुत्पत्तिः सत्कायवर्शनात् । आत्मात्मीयाभिनिवेशात्।
ननु चाविद्याहेतुकाः क्लेशा आगमे उक्तास्तत्कथं न व्याघात इत्याह। साऽविद्येति सैव सत्कायदृष्टिरविद्या। ततो नास्ति विरोधः। केन पुनः क्रमेण दोषाणां सत्कायदर्शनादुत्पत्तिरित्याह । तत्रेत्यादि । तत्रात्मात्मीयत्वेनाभिनि (वि) ष्टे विषये। तत्स्नेहः। आत्मात्मीयस्नेहः। तस्मादात्मात्मीयस्नेहात् द्वेषादिसम्भव इति क्रम:।
न हीत्यादिना व्याचष्टे। नाहमित्यात्माकारप्रतिषेधः। न ममेत्यात्मीयाकारस्य। अनात्माकारेण नात्मीयाकारेण च पश्यतः पुरुषस्य। परिग्रहमन्तरेणेति ।