________________
४०० प्रमाणवात्तिकस्ववृत्तिटीका (१।२२४) ____ न हि स्वभावोऽयं तेन विना निवर्तयितुं शक्यः। श्रोत्रियकापालिकघृणावत् । यत्नश्च प्राप्यनिवृत्तयोः स्वभावयोर्गुणदोषदर्शनेन क्रियेत। तच्च विपक्षसात्मनः पुरुषस्य दोषेषु न संभवति । तस्य निरुपद्रवत्वाद् (1)
अशेषदोषहानेः। पर्यवस्थानजन्मप्रतिबद्धदुःखप्रविवेकात् प्रशमसुखरसस्यानुवैजनाच्चाभूतार्थ खल्वप्युपादानबलभाविसन्तानस्य विपर्ययोपादानान्न स्यात् न भूतार्थ (1) वस्तुबलोत्पत्तेः (1)
त्पादने यत्नन्निवर्त्य । गुणपक्षपातेन दोषप्रतिपक्ष एव यत्नाधानादिति यावत् । __ स्वभावपदमेव तावदादौ व्याचष्टे। न हि स्वभावो नैराप्म्यदर्शनलक्षणः प्रतिपक्षसात्मनि व्यवस्थितेन पुरुषेण। अयन्तेन प्रयत्नेन विना निवर्तयितं शक्यः श्रोत्रि-यकापालिकघृणावदिति। यः . श्रोत्रियः सन् कापालिको भवति तस्य श्रोत्रियावस्थायां या घणा सा यथा यत्नमन्तरेण न शक्यते निवर्तयितन्तद्वत । मार्गस्वभावनिवर्त्तनाय यत्नश्च क्रियमाणः । प्राप्यस्य रागादिस्वभावस्य गुणदर्शनेन निवर्त्यस्य विपश्यनास्वभावस्य दोषवर्शनेन क्रियेत। तच्च दोषदर्शनं विपक्षसात्मनः दोषप्रतिपक्षसात्मनः पुंसो दोषप्रतिपक्षेन सम्भवति। तथा तच्च गुणदर्शनम्विपक्षसात्मनो दोषेषु न सम्भवति। .
कस्मात् पुनः प्रतिपक्षे दोषदर्शनन्न सम्भवतीत्याह। तस्येत्यादि। तस्य प्रतिपक्षस्य निरुपद्रवत्वात् । त्रिविधो ह्य पद्रवो यस्याभावान्निरुप्रद्रवो मार्गः । तथा हि चित्तम्विबळू हेतुर्दोषोपद्रवो यश्चित्तम्विवद्धम्भूतार्थदर्शने न प्रवर्तते। कायचित्तव्यथाहेतुर्दुःखदौर्मनस्योपद्रवः। सास्रवसुखस्याप्रशान्ततया तदुपभोगे बैरस्योद्वेगश्च।
तत्र प्रथमस्योपद्रवस्याभावमाह। सर्वदोषहानेरिति । सर्वस्य रागादिदोषस्य हानेविगमात्।
पर्यवस्थानेत्यादिना द्वितीयस्याभावमाह। रागादिसम्मुखीभाव : पर्यवस्थानं 144b च जन्म च पर्यवस्थानजन्मनी । तयोर्यत्प्रतिवद्धन्दुःखन्तस्य विवेकात्। रागा
द्युत्पत्तिकाले यद् दुःखं कायचित्तपरिदाहलक्षणन्तत्पर्यवस्थानप्रतिबद्धजातिजराव्याध्यादिदुःखन्तु जन्मप्रतिबद्धं ।
ततीयस्योपद्रवस्याभावमाह । प्रशमेत्यादि प्रशमो रागादिविरहलक्षणं निर्वाणं। तस्मिन् यत्सुखमनास्रवन्तस्य रस अस्वादस्तस्यानुद्वेजनात्। अवैमुख्यकरणात् । अभूतार्थमभ तविषयं खल्वपि रागादि । न स्यादिति सम्बन्धः।।
यद्यभूतार्थ कथन्तर्हि तस्योत्पत्तिरित्याह । उपादानबलभावीति वितथविकल्प