________________
६. श्रागम - चिन्ता
ज्वालादिवत् ( 1 ) तेन स्यादपि नि ( र् ) दोषः ( । २२४ )
कथं निर्दोषो नाम (1) यावता दोषविपक्षसात्मत्वेपि दोषसात्मनो विपक्षोत्पत्तिवत् । यथा प्रत्ययं दोषोत्पत्तिरपि ( 1 ) नायं दोषः ( 1 ) यस्मात् ( 1 ) ' निरुपद्रवभूतार्थस्वभावस्य विपर्ययै (: ॥२२३॥)
न बाधा यत्नवत्वेपि बुद्धेस्तत्पक्षपाततः ।
३६६
मनोगुणस्य भावनाप्रकर्षपर्यन्तवत्तितया पाटवं जातन्तदा तत्पाटवे । तस्य मनोगुणस्य पाटवे सति । अन्वयः क्लेशबीजमन्वेत्युत्पद्यतेऽस्माद्दोष इति कृत्वा (1) निर्गतोन्वयो यस्मिन् विनाशे स निरन्वयविनाश: ( 1 ) स धर्मो येषान्दोषाणान्ते निरन्वयविनाशधर्माणः । वासनया सह विनाशधर्माण इत्यर्थः । ज्वालाविवत् । यथा ज्वालादयः प्रतिपक्षस्योदकादेरुत्कर्षे सत्यत्यन्तविनाशधर्माणस्तद्वत् । प्रयोगः पुनः (1) ये यदुपधानादपकर्षिणस्ते तदत्यन्तवृद्धौ तदभिभवान्निरन्वयविनाशधर्माणः । तद्यथा ज्वालादयः सलिलाभिभववृद्धौ । नैरात्म्यदर्शनोपधानाच्चापकर्षधर्माणो दोषा इति स्वभावहेतुः ।
यत एवन्तेन कारणेन स्यादपि कश्चिन्निर्दोषः । कथमित्यादि परः । यावतेत्ययन्निपातो यदेत्यस्मिन्नर्थे वर्त्तते । दोषसात्मनो विपक्षोत्पत्तिवदिति 1442 चानादिकालाभ्यासात् । दोषसात्मनः पुंसः विपक्षोत्पत्तिर्नैरात्म्यदर्शनोत्पतिः । एवन्वोषविपक्षस्य नैरात्म्यदर्शनस्य सात्मत्वेपि यथाप्रत्ययं । यथाकारणसन्निधानन्दोषोत्पत्तिरपि स्यात् ।
नायमित्याचार्यः । सर्वसांसारिकोपद्रव रहितत्वान्निरुपद्रव: । भूतविपरीतमनित्यादिस्वलक्षणमर्थो विषयोस्येति भूतार्थः । भूतार्थग्रहणादेव च मार्गश्चित्तस्वभावः । निरुपद्रवश्चासौ भूतार्थश्चेति निरुपद्रवभूतार्थस्तथाभूतश्चासौ स्वभावश्चेति कर्मधारयगर्भ एव कर्मधारयसमासः निरुपद्रवस्य भूतार्थस्य भूतार्थत्वेनाभ्यासात् सात्मीभावगते ( 1 ) अनेन च चित्तस्वभावस्य दोषप्रतिपक्षस्य विपर्ययैर्यथोक्तात् त्रयाद् विलक्षणैः सोपद्रवैरभूतार्थैरस्वभावैश्च दोषैर्न बाधनं । सात्मीभूतं मार्गमभिभूय न दोषाणामुत्पत्तिरित्यर्थः । किङ्कारणं ( 1 ) यत्नवत्त्वे पीत्यादि । एतदाह । सात्मीभूतस्य मार्गस्य दोषोत्पादनाय यत्न एव न सम्भवति ।
तथाप्यभ्युपगम्योच्यते (1) दोषोत्पादने यत्नवत्त्वे बुद्धेस्तत्पक्षपाततः । तस्मिन् दोषप्रतिपक्षभूते गुणवति नैरात्म्यमार्गे । पक्षपातेन बहुमानतः । दोषो
1 Bam-po bdun-pa-सप्तममान्हिकम् ।