________________
३६८ प्रमाणवात्तिकस्ववृत्तिटीका (१।२२३)
सात्मीभावात्तदभ्यासाद्धीयेरनास्रवाः कचित् । स तु प्रहीणाश्र (?) वो दुनिः। दोषा हि निहाँ सातिशयधर्माणो विपक्षाभि (भ)वोत्कर्षापकर्ष साधयन्ति ज्वालादिवत् । ते हि विकल्पप्रभवाः सत्यप्युपादाने कस्यचिन्मनोगुणस्याभ्यासादपकर्षिणः। तत्पाटवे निरन्वयविनाशधर्माणः स्युः (1)
प्रतिपक्षासम्मुखीभावे चातिशयमुपचयं श्रयन्ते ये रागादयस्ते निस्सातिशयाश्रिताः। तेषां सर्वेषां विपक्षत्वात् । यस्य च सम्मुखीभावासम्मुखीभावाभ्यां निर्हासातिशयम्भजन्ते स एव तेषां विपक्षो बाधकस्तेन सह वर्तत इति सविपक्षः । तद्भावस्तत्त्वन्तस्मात्। स बाधकत्वादिति यावत्। येन च बाधकेन दोषाणां सविपक्षत्वन्तस्य बाधकस्याभ्यासात् पुनः पुन रन्तर्येणोत्पादनाद् य सात्मीभावस्त
दौर्जित्यन्तन्मयता। तस्माद् बाधकसात्मीभावाद्धीयेरन्। क्षीयरेन्। आस्रवा 143b रागागदयः क्वचित् सन्ताने सात्मीभूतदोषप्रतिपक्षे दोषाणां च बाधकं नैरात्म्य
ज्ञानमिति प्रतिपादयिष्यति । तस्मान्न तथाभूत : पुरुषो नेष्यते एतावत्तु ब्रूमः स तु क्षीणास्त्रवो दुर्ज्ञान इति।
दोषो होत्यादि विवरणं । दोषा हि रागादयः। किंभूता (1) निर्हासातिशयधर्माणः। अपकर्षोत्कर्षस्वभावा : सन्तो विपक्षाभिभवोत्कर्ष विपक्षकृतो योभिभव स्तिरस्कारस्तस्योत्कर्षापकर्ष साधयन्ति गमयन्ति। तेनायमर्थ : (1) निर्हासधर्माणः विपक्षाभिभवोत्कर्ष साधयन्ति बाधकाभिभवोत्कर्षेण दोषाणां निर्हासात् अतिशयधर्माणो बाधकाभिभवापकर्ष साधयन्ति। बाधकाभिभवमान्येन तेषामतिशयधर्मत्वात् । ज्वालादिवत्। आदिशब्दाच्छीतोष्णस्पर्शादिपरिग्रहः । यथा ज्वालादयो बाधकस्योदकादेरुत्कर्षापकर्षे सति निर्वासातिशयधर्माणो यथाक्रममुदकाद्यभिभवोत्कर्ष साधयन्ति तद्वत्।
ननु च बाह्यार्थप्रतिबद्धा रागादयः बाह्यं च वस्तु नित्यं सन्निहितमेव (1) तत्कथं रागादीनामुच्छेद इत्यत आह । ते हीत्यादि। हिशब्दो यस्मादर्थः । ते रागादयो विकल्पप्रभवाः। विकल्पादयोनिशोमनस्कारलक्षणात् प्रभव उत्पाद एषामिति विग्रहः। तथा योनिशोमनस्कारमन्तरेण सत्यपि बाह्यर्थे नोत्पद्यन्ते रागादयः तत्सम्मुखीभावे च विनाप्यर्थेनोत्पद्यन्त इति विकल्पप्रभवा रागादयः। ततः सत्यप्युपादाने यथोक्तलक्षणे। अनादरविवक्षायां चेयं सप्तमी । कस्यचित् मनोगुणस्य नैरात्म्यदर्शनलक्षणस्याभ्यासात् । अपकर्षिणः अपचयवन्तो भवन्तीत्यर्थः। ____एतदुक्तम्भवति। यद्यपि तावद् दोषनिदानस्य सर्वदा नोच्छेदः प्रतिपक्षस्यात्यन्तपाटवाभावात् (1) तथापि प्रतिपक्षाभ्यासात् मन्दीकृतसामर्थ्यादुपादानाद् अपकर्षिणः क्षामक्षामतरा दोषा भवन्तीत्यनेन च हेतुरुक्तः। यदा तु यथोक्तस्य