________________
६. आगम-चिन्ता
३६७ चैतसेभ्यो गुणदेशेभ्यो ये पुरुषाः (सम्यमिथ्या)' प्रवृत्तयस्ते चातीन्द्रियाः स्वप्रभवकायवाग्व्यवहारानुमेयाः स्युः। व्यवहा (रा)श्च प्रायशो बुद्धिपूर्वमन्यथापि कत्तुं शक्यन्ते (1) पुरुषेच्छावृत्तित्वात् (1) तेषां च चित्राभिसन्धित्वात् (1) तवयं लिङ्गसंस्कारात् कथमनिश्चिन्वन् प्रपद्येत ।
अथ किन्नवमेतादृशः पुरुषोस्ति यो निर्दोषः॥ सर्वेषां सविपक्षत्वाग्निर्हासातिशयाश्रिता ॥ (२२२॥)
वा दुर्बोधेत्यपरे विदुः । निर्दोषतेत्येतदपेक्षया दुर्बोधेत्येकवचनेन स्त्रीलिंगेन च निर्देशः। अन्यदोषा इत्येतदपेक्षया तु दुर्बोधा इति पुल्लिङ्गबहुवचनाभ्यां विपरिणामः कर्त्तव्यः । कस्माद् (1) दुर्बोधत्वाद् दुःप्राप्यत्वादन्य गुणदोषनिश्चायकानां प्रमाणानां (1)
चैतसेभ्य इत्यादिना व्याचष्टे। सम्यग् मिथ्या च प्रवृत्तिः कायवाक्कर्मलक्षणा येषां पुंसान्ते तथा। चेतसि भवाः चैतसा गुणदोषाः। चैतसेभ्यो गुणेभ्यः कृपावैराग्यबोधादिभ्यो हेतुभ्यः सम्यक्प्रवृत्तयः यथार्थप्रवृत्तयः । चैतसेभ्यो दोषेभ्यो रागादिभ्यो मिथ्याप्रवृत्तयो विपरीतप्रवृत्त यो भवन्ति। ते चेति परेषां चैतसा गुणदोषाश्चेतोधर्मत्वेनातीन्द्रियाः। ततो न प्रत्यक्षगम्याः। नाप्यनुमानगम्या अतीन्द्रियत्वादेव स्वभावलिङ्गस्यासिद्धेः। किन्तु स्वस्माद् गुणदोषरूपात् प्रभव उत्पादो यस्य कायवाक्कर्मणः। तेन कार्यलिङ्गेनानुमेयाः। तच्च नास्ति । यस्माद् व्यवहाराश्च कायवाक्कर्मलक्षणाः प्रायशो वा बहुल्येन। बुद्धिपूर्वमिति कृत्वा प्रतिसंख्यानेनान्यथापि कर्तुं शक्यन्ते। तथा हि सरागा अपि वीतरागवद् आत्मानन्दर्शयन्ति । वीतरागाश्च सरागवत् । किं कारणं (1) पुरुषेच्छावृत्तित्वाद् व्यवहाराणां पुरुषेच्छया वृत्तिः प्रवृत्तिर्येषामिति विग्रहः ।
यदि नाम पुरुषेच्छावृत्तयो व्यवहारास्तथापि किमित्यन्यथा क्रियन्त इत्याह । तेषां चेति पुंसां चित्राभि सन्धित्वाच्चित्राभिप्रायत्वात् ततो यथेष्टं व्यवहाराः प्रवर्त्तन्त इति नास्ति गुणदोषप्रभवाणां व्यवहाराणाम्विवेकनिश्चयः (1) तदिति तस्मादयमनुमाता पुमान् लिङ्गसंकराल्लिङ्गव्यभिचारादनिश्चिन्वन् क्षीणदोषः कथमागमस्य कर्तारं प्रतिपद्यत नैवेति निगमनीयं । __ अथ किमित्यादि । यो निर्दोषो रागादिदोषरहितस्तादृशः पुरुषः किन्नवास्ति। अस्तीति प्रतिपादयन्नाह । सर्वेषामित्यादि। प्रतिपक्षसम्मुखीभावे निसिमपचयं
The restored text from first page up to here. 2 Bya-ba-dan. smras-pao=क्रिया-वचन०