________________
३६६ . प्रमाणवात्तिकस्ववृत्तिटीका (१।२२२) व्यसनेन । अपि नाम अतोऽनुष्ठेयं ज्ञात्वा प्रवृत्तः सन् अर्थवान् इति एवं शक्यदर्शनाविसंवादप्रत्ययत्वात्, तदन्यत्रापि प्रवर्तेत एवंप्रायत्वात् लोकव्यवहारस्य ।
(१) पौरुषयेत्वे क. पुरुषातिशयप्रणीतं वचनं प्रमाणम् पुरुषपरीक्षया पुनः प्रवृत्तौ प्रवृत्तिरेव न स्यात् । तस्य तथाभूतस्य ज्ञातुमशक्यत्वात् नानिष्टः। तादृशां अवितथाभिधानात् । तथा हि--
(अयमेवं) न वेत्यन्यो दोषानिर्दोषतापि वा ॥२२॥ दुर्लभत्वात्प्रमाणानां दुर्बोधेत्यपरे विदुः ।
क्षीणदोषादिकत्वन्तमपेक्ष्यते यद्वचनन्तद् यथार्थमपरे वादिनो विदुर्जानीयु ः। यथार्थ यथावस्तु व्यवस्थितन्तथैव दर्शनं ज्ञानं यथार्थदर्शनं। तदादिर्यस्य कृपावैराग्यादेस्तद्यथार्थदर्शनादि। स एव गुणस्तेन युक्तः पुरुष आप्तस्तेन प्रणयनन्तेनाप्तवच नमागमस्याविसम्वाद इत्यन्ने। (२२०-२१) ___ इष्ट इत्यादि सिद्धान्त वा दी। योयमनन्तरोक्तोर्थः स इष्टोस्माकं । किन्तु शक्येत ज्ञातुं पुरुषनैयम्येन योतिशयो यथा दर्शनादिलक्षणस्य तु शक्य :।
सर्व एवेत्यादिना व्याचष्टे । सर्व एव प्रेक्षापूर्वकारी। आगममनागमम्वान्वेषते निरूपयति । अनागमन्त्यक्त्वागमद्वारेण प्रवृत्तिकामः । न व्यसनेनासक्तिमात्रेण। प्रवृत्तिकामतामपि नेत्यादिनाह । अपिनामेति कथन्नाम। अत इत्यागमावनुष्ठेयं साक्षात् कर्त्तव्यमर्थं ज्ञात्वा प्रवृत्तः सन्नर्थवान् फलवान् स्याम्भवेयमिति । सोन्वेषमाणः पुरुषः शक्यं दर्शनं निश्चयो यस्मिन्नर्थे प्रत्यक्षानुमानगम्ये तस्याविसम्वादः प्रत्यक्षानुमानाभ्यामवधानं । स एव प्रत्ययोवलम्बनन्तेनान्यत्रापि प्रत्यक्षानुमानागम्येप्यर्थे प्रवर्तत । कि कारणम् (1) एवंप्रायत्वाल्लोकव्यवहारस्य (1) एवमित्येकदेशाविसम्वाददर्शनेनान्यत्र प्रवर्तनं । प्रायो बाहुल्येन यस्मिन् लोकव्यवहारे स तथोक्तः ।
पुरुषपरीक्षया पुनः प्रवृत्तावभ्युपगम्यमानायां प्रवृत्तिरेव न स्यात्। किं कारणं (1)तस्य पुंसस्तथाभूतस्य यथार्थदर्शना दिगुणयुक्तस्य । नानिष्टरप्रवृत्तिरेव स्यादिति सम्बध्यते । तेनायमर्थो न पुनर्यथार्थदर्शनादिगुणयुक्तानां पुंसामवितथाभिधायित्वेनानिष्टरप्रवृत्तिरेव स्यात् । किं कारणम् (1) तादृशां यथार्थदर्शनादि
गुणयुक्तानामवितथाभिधानात् । यथावस्थितवस्तुप्रकाशकवात् । 143a ___किं पुन कारणन्तथाभूतः पुमान् ज्ञातुमशक्य इत्याह ।' तथा होत्यादि । अयं
पुमानेवन्दोषवान् । न वा। एवन्दोषवान् । किन्तु निर्दोष इत्येवमन्यदोषानिर्दोषतापि