________________
६. आगम-चिन्ता
हेयोपादेयोपायानां तदुपदिष्टानां वैपरीत्यमविसंवादः। यथा चतुर्णा आर्यसत्त्यानां वक्ष्यमाणया नीत्या। तस्यास्य पुरुषार्थोपयोगिनोऽभियोगार्हस्य अविसंवादाद् विषयान्तरेऽपि तथात्वोपगमो न विप्रलम्भाय, अनुपरोधात्, वक्तुनिष्प्रयोजनाभिधानवैफल्यात्। ___ तच्च तदुभयथाऽपि अनवकाशं प्रागमस्यानुमानत्वमेवोपवर्णितम् । प्रागमात् प्रवृत्तौ प्रतितव्यम् । तथा चेद् न खल्वेवमनुमानमनपायम्। अर्थेषु "नान्तरीयकताभावाच्छब्दानां" इत्युक्तम्।
पुरुषातिशयापेक्षं यथार्थमपरे विदुः ॥२२०॥
इष्टोयमर्थः शक्येत ज्ञातुं' सोतिशयो यदि। यथार्थदर्शनगुणयुक्तः पुरुषो निःक्लेशः, तेन प्रणयनं हि अविसंवाद इत्यन्ये । सर्व एव प्रेक्षापूर्वकारी प्रवृत्तिकामः प्रागमं अनागमं वाऽन्विष्यति न तु
486a
त्यन्तपरोक्षेप्यर्थेनुमानम्वा शब्दः पूर्वप्रकारापेक्षा या विकल्पार्थः।
तयोहयोत्पादेययोरुपायौ तदुपायौ। हेयं चोपादेयं च तदुपायौ चेति द्वन्द्वः। तेषान्तदुपदिष्टानान्तेनाप्तेनोपदिष्टानामवैपरीत्यमनुमानेन निरूप्यमाणानामवितथत्वमविसम्वादः। यथा चतुर्णान्दुःखादीनामार्यसत्यानां द्वितीये परिच्छेदे। वक्ष्यमाणया नीत्या विचारेण । तस्यास्येति भगवता पूर्वनिर्दिष्टस्याधुना विभक्त त्वादस्य सत्य च तु ष्टयलक्षणस्य। किंभूतस्य पुरुषार्थोपयोगिनः। पुरुषार्थो निर्वाणं तत्रोपयोगः कारणत्वं स यस्यास्ति तथा। अत एवाभियोगार्हस्याभ्यासार्हस्याविसम्वादाद विषयान्तरेपि प्रत्यक्षानुमानागम्ये।' तथात्वोपगम इत्यविसम्वा- 142b दोपगमो न विप्रलम्भाय। न विस म्वादाय भवति। किं कारणम् (1) अनपरोधात्। प्रमाणेनाबाधनात् । प्रधाने च सत्त्यचतुष्टयलक्षणेर्थे पुरुषमविसम्वाद्य पुनस्तृतीये स्थाने वक्तुनिष्प्रयोजनं यद्वितथाभिधानन्तस्य वैफल्यात्।।
__ कदाचित् तत्राज्ञानादपि तथाभिधानं स्यादिति चेदाह। तदित्यादि ।उभयथा पीति श्लोकद्वयनिर्दिष्टेन प्रकारेण। तदेतदागमस्यानुमान त्वमगत्योपणितमिति सम्बन्धः। अनुमानकारणत्वादनुमानमिति द्रष्टव्यं। आगमात् प्रवृत्तौ सत्याम्वरमेवंयुक्तादागमात् प्रवृत्तो न तु प्रमाणगम्य एवार्थे विसम्वादकादिति।
न खल्वेवमुक्तेनापि प्रकारेणागमाश्रये ज्ञानमनुमानमनपायं निर्दोष । कस्माद् (1) अनान्तरीयकत्वादसम्वादत्वादर्थेषु शब्दानामिति निवेदितमेतन्नान्तरी यकताभावाच्छब्दानाम्वस्तुभिः सहे (१।२१३) त्यादिना (1) पुरुषस्यातिशयाः