________________
३६४ प्रमाणवात्तिकस्ववृत्तिटीका (१।२२०) प्रत्यक्षानुमानगम्येऽर्थे प्रतिपत्तेः; तदाश्रयत्वात्,1 तदन्यप्रतिपत्तिवत् अविसंवादेऽनुमेयम्।
ततः शब्दप्रभवाऽपि शाब्दवत् नाभिप्रायमेव निवेदयति । अविसंवादाद् अनुमानमपि। अथवा प्रकारान्तरेण क्लेशप्रहाणाविसंवादात् अनुमानमेव वक्तव्यम् ।
हेयोपादेयतत्त्वस्य सोपायस्य प्रसिद्धितः ।।२१९।। प्रधानार्थाविसंवादादनुमानं परत्र वा।
प्रवृत्त इति। 142a तस्यत्यादि विवरणं। तस्यागमस्याचार्य दि ग्ना गे न निर्दिष्टानुमानभाव'
स्य। अस्येत्यस्माभिस्सम्बन्धादनुगुणोपायमित्यादिना विचारितस्य। अत एवाह (1) एवंभूतस्येति सम्बन्धादिगुणयुक्तस्येत्यर्थः। प्रत्यक्षानुमानगम्ये तस्मिन् वस्तुन्यविसम्बादसामान्यादविसम्वादत्वात् कारणाद् दृष्टव्यभिचारस्यापवादस्य प्रत्यक्षानुमानागम्येर्थे विषये। आप्तवादादनुत्पन्नायाः प्रतिपत्तेर्बुद्धे रविसम्वादोनुमीयते। कस्मात् (1) तदाश्रयत्वादाप्तवादाश्रयत्वं चाचार्यपारम्पर्योपदेशात् सिद्धं । तदन्यप्रतिपत्तिवत्। अत्यन्तपरोक्षादन्यस्मिन् विषये प्रत्यक्षानुमानविषये प्रतिपत्तिवत् । ततो यथोक्तादाप्तवादा (द)त्यन्तपरोक्षेर्थे यथोक्तागमाश्रिता बुद्धिः शब्दप्रभवापि सती शब्दादुत्पन्नापि। शाब्दवदिति यथान्यः शाब्दः प्रत्ययोभिप्रायमात्र निवेदयति। तथा नेयं बुद्धिरभिप्रायमेव निवेदयति। एवकारस्य भिन्नक्रमत्वात्।
किन्तीष्टस्य प्रत्यक्षानुमानागम्यस्यार्थस्यानन्तरोक्तेन न्यायेनाविसम्वादादनुमानमपि प्रवृत्तिकामस्य पुंसोभिप्रायवशात्। वस्तुतस्त्वननुमानं शब्दानामर्थस्सह सम्बन्धाभावात्।
अस्यैवार्थस्य ख्यापनार्थोऽपिशब्द: प्रकारान्तरेणाप्तवादाविसम्वादं दर्शयन्नाह। अथवेत्यादि। हेयं सर्वन्दुःखं। उपादेयं सर्वक्लेशप्रहाणन्निर्वाणं । तयोस्तत्त्वमविपरीतं रूपन्दुःखसत्यस्य निरोधसत्यस्य च । सह उपायेन यद् वर्त्तते हेयोपादेयतत्त्वन्तस्योपायं । हेयस्योपायः स मु द य सत्यं । उपादेयस्योपादेय (? यो) मार्गसत्यं । अस्य हेयोपादेयतत्त्वस्य सोपायस्य भ ग व द्दर्शितस्य वस्तुबलायातेन प्रमाणेन प्रसिद्धितो निश्चयतः कारणात । भगवद्वचने सत्त्यचतुष्टयलक्षणस्य प्रधानस्यार्थस्याविसम्वाद : (1) सत्त्यचतुष्टयलक्षणोर्थः प्रधानन्तदधिगमेन निर्वाणप्राप्तेः। तस्मात् प्रधानार्थाविसम्वादात्। भगवद्वचनादुत्पन्नं ज्ञानं परत्राप्य