SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ६. प्रागम-चिन्ता आर्यसत्त्यानि। तेषां अननुमेयानां तथाभावः, यथात्मादीनाम्। आगमापेक्षमनुमानमपि । रागादिरूपं तत्प्रभवं चाभ्युपगम्य तत्प्रहाणाय स्नानाग्निहोत्रादेर नुपदेशवत्म्य सेयं शब्दपरिच्छेदस्य अशेषस्य विषयस्य विशुद्धिः अविसंवादः । प्राप्तवादाविसंवादसामान्यादनुमानता ॥२१८॥ बुद्धेर'गत्याभिहिता परोक्षेऽप्यस्य गोचरे । तस्यास्य एवंभूतस्य दोषक्षयस्य अविसंवादसामान्याद्, दृष्टव्यभिचारस्य 485b शादि। अनेकद्रव्यं च द्रव्यं । यथावयवि द्रव्यं । कर्मोत्क्षेपणादिकं । सामान्य सत्ता गोत्वादिकं (1) प्रादिशब्दाद विभागादिपरिग्रहः । न हि नीलादिविषयं पंच व्यतिरेकेणान्यस्य प्रत्यक्षतास्ति। तद्वयतिरेकेणानुपलब्धेः। वस्तुबलप्रवृत्तमनुमानमनागमापेक्षानुमानं। तस्य विषयत्वेनाभिमतानान्तथाभावोनुमानविषयभावोनुमानेनाबाधर्क। चत्वारि चा र्य सत्यानि। उत्तरत्र प्रतिपादयिष्यते। अननुमेयानान्त थाभावोऽननुमेयत्वमनुमानेनाबाधने। यथात्मादीनाम् (1) आदिशब्दात् प्रधानेश्वरादिपरिग्रहः। न ह्येषां किञ्चिल्लिङ्गमस्ति येनानुमेयाः स्युः। एतदपि प्रतिपादयिष्यति। विशुद्धे विषयद्वये ( ) ऽत्यन्तपरोक्षे चागमविषये पौर्वापर्यविरोधेन यस्मिन् चिन्तां प्रवर्त्तयति तस्मिन्नागमापेक्षमनुमानमपि। अबाधनमिति प्रकृतं। ___ कीदृशन्तदबाध नमित्याह। रागादिरूपं रागद्वेषमोहस्वभावमधर्ममभ्युपगम्य तत्प्रभवं रागादिसमुत्थापितं कायवाक्कर्म चाधर्ममभ्युपगप्य। तत्प्रहाणाय तस्याधर्मस्यापगमाय स्नानाग्निहोत्रादेः। तीर्थस्नानेन पापक्षयो भवति। यमुद्दिश्याग्नौ घृतादिकं हूयते तस्य पापक्षयो भवतीत्येवमादेरनुपदेशः। आदिशब्दादुपवासादिपरिग्रहः। तथा हि न स्नानादि पापमपनयति (1) पापनिदानेन रागादिना विरोधाभावात्। सेयमनन्तरोक्ताप्रत्यक्षेणानुमानेन द्विविधेन शक्यपरिच्छेदस्य शक्यनिश्चयस्याशेषस्य विषयस्य बाधालक्षणा। तस्यास्तावदस्या विसम्वादाद् सामान्यात् । यथा शक्यपरिच्छेदेर्थे आप्तवादस्याविसम्वादस्तथात्यन्तपरोक्षेपि आप्तवादत्वादेव। ततश्चाप्तवादलक्षणाल्लिङ्गादुत्पन्नाया अविसम्वादबुद्धरनुमानताचार्य दिग्नागे ना भिहिता (२१७-१८) परोक्षेप्यर्थस्य गोचर इत्यत्यन्तपरोक्षेप्यस्य शास्त्रस्य गोचरे विषये। सा चागत्याभिहितान्येन प्रकारेणात्यन्तपरोक्षे प्रवृत्त्यसम्भवात्। सत्यां प्रवृत्तौ वरमेवं
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy