________________
३६२
प्रमाणवात्तिकस्ववृत्तिटीका (१।२१८) प्रवर्तमानः शोभते। कः पुनरस्याविसंवादः ?--
प्रत्यक्षेणानुमानेन द्विविधेनाप्यबाधनं ॥२१७।।
दृष्टादृष्टार्थयोरस्याविसंवादः तदर्थयोः । प्रत्यक्षाभिमतानां अर्थानां तथाभावः प्रत्यक्षेणाबाधनम्।
यथा नीलादिसुखदुःखनिमित्तोपलक्षणरागादीनां बुद्धीनां । अतथाभूतानां चाप्रत्यक्षता। यथा शब्दादिरूपसन्निवेशिनां सुखादीनां च। द्रव्यकर्मसामान्यादिवत् । तथा नागमापेक्षानुमानस्य विषयाभिमतानां तथा स्यात् । यथा चत्वारि
त्रयरहिते। अवधानस्यवेत्यादरस्य।. तदिति यथोक्तगुणत्रययुक्तं शास्त्रं परीक्षायां सत्यां न विसम्वादभाग् भवति। तस्मिन्नविसम्वादभाजि शास्त्र प्रवर्त्तमानः पुरुषः शोभते।
कः पुनरस्य शास्त्रस्याविसम्वाद इत्याह। प्रत्यक्षेणेत्यादि प्रथमोर्थी शब्दो वस्तुवचनः। द्वितीयो विषयवचनः। तेनायमर्थः। दृष्टादृष्टयोर्वस्तुनोस्तदर्थयोः प्रत्यक्षानुमानविषययोर्यथाक्रमं प्रत्यक्षेणानुमानेन च द्विविधेन वस्तुबलप्रवृत्तेनागमाश्रितेन चाबाधनमस्य शास्त्रस्याविसम्वादः। (२१६-१७)।
प्रत्यक्षेत्यादिना व्याचष्टे। शास्त्रे प्रत्यक्षाभिमतानाम्प्रत्यक्षत्वेनोपगतानामर्थानान्तथाभावः प्रत्यक्षभाव: प्रत्यक्षेणाबाधनं ।
यथेत्यादिना स्वसिद्धान्ते प्रत्यक्षाभिमतमर्थं पञ्चस्कन्धसंगृहीतन्दर्शयति । नीलादीत्यनेन रूपादीन् पञ्च विषयानाह। अनेन च रूपस्कन्ध उक्तः। सुखदुःखे इति वे द ना स्कन्धः। निमित्तस्य स्त्रीपुरुषादिचिह्नस्योपलक्षणं निमित्तो
पलक्षणं। अनेन संज्ञा स्कन्धः। रागादिग्रहणेन सं स्का र स्कन्धः । आदिशब्दाद् I4Ib द्वेष'मोहादिपरिग्रहः। बुद्धिग्रहणेन वि ज्ञा न स्कन्धः। नीलादि च सुखदुःखे च
निमित्तोपलक्षणं च रागादि च बुद्धिश्चेति द्वन्द्वः। एवं शास्त्रे प्रत्यक्षाभिमतानां प्रत्यक्षत्वमेव। नीलादीनां चक्षुर्विज्ञानादिप्रत्यक्षत्वात् (1) सुखादीनां स्वसम्वेदनप्रत्यक्षत्वात्। अतथाभिमतानां चाप्रत्यक्षाभिमता (नां) चार्थानामप्रत्यक्षता (1) प्रत्यक्षेणाबधानमिति प्रकृतेन सम्बन्धः । यथेति विषयोपदर्शनं। शब्दादिरूपेण सन्निवेष्टुं शीलं येषां सुखादीनान्तेषामप्रत्यक्षता। शब्दादिस्वभावानां सुखदुःखमोहानां प्रत्यक्षेणाप्रतीतेः
एतत् सांख्य दर्शनप्रतिक्षेपेणोक्तं । वैशेषि का दि दर्शनप्रतिक्षेपेणाह। द्रव्यं द्विविधं । अद्रव्यं द्रव्यं यथाका