________________
६. आगम- चिन्ता
सम्बद्धानुगुणोपायं पुरुषार्थाभिधायकम् ॥२१६||
परीक्षाधिकृतं वाक्यं श्रतोऽनाधिकृतम्परम् ।
सम्बन्धो हि वाक्यानामेकस्मिन्नर्थ उपसंहारेणोपकारः । श्रन्यथा वक्तुर्वैगुण्यमुद्भावयेत् । दश दाडिमादिवद् श्रसम्बद्धमेव । श्रशक्योपायफलानि शास्त्राणि न हि फलार्थी आद्रियेत् विचारयितुम् । पुरुषार्थफलानि च । विषशमनार्थं तक्षक- चूडामण्यलंकरणोपदेशवत् । काकदन्तपरीक्षावच्च ।
३६१
तद्विपर्ययेणोपसंहारवत् शक्योपायं', पुरुषार्थवचनं शास्त्रं हि परीक्ष्यते । अन्यत्र अवधानस्यैव श्रन्याय्यत्वात् । तत् परीक्षायां तस्मिन् प्रविसंवादभाजि 4852
वरमेवमागमम्परीक्ष्य प्रवृत्त इत्यागमस्य परीक्षया प्रामाण्यमाहा चा र्यः । 141a न च सर्वं शास्त्रं परीक्षयाधिकृतं । किन्तु तच्चेत्यादि शास्त्रं । पदार्थानाम्परस्परसम्बन्धात् सम्बद्धं । अनुगुणः साधयितुं शक्यः फलसाधनोपायो यस्मिंस्तदनुगुणोपायं सम्बद्धं च तदनुगुणोपायं चेति विशेषणसमासः । एवं भूतमपि यदि पुरुषार्थाभिधायकन्तदा परीक्षाधिकृतं वाक्यं । अतो यथोक्तस्वभावादपरमन्यद्वाक्यमनधि - कृतम्परीक्षायां ।
सम्बन्ध इत्यादिना व्याचष्टे ।
वाक्यानामङ्गाङ्गिभावेनैकस्मिन्नर्थे विधेयप्रतिषेध्यलक्षणे उपसंहारो मीलनन्तेनोपकारः परस्परं वाक्यानां सम्बन्धः । अनुपकारकः पुनः केषामित्याह । दश दाडिमेत्यादि दश दाडिमानि षडपूपा: कुण्डमजाजिनं पललमित्येवमादीनि वाक्यानि । न ह्येषामेकार्थोपसंहारोस्ति परस्परम±सम्बन्धात्। अनयथेत्यसम्बद्धत्वे वक्तुः शास्त्रकारस्य वैगुण्यमसम्बद्धाभिधायित्वमुद्भावयेत् । अशक्योपायो येषां फलानन्तान्यशक्योपायानि । एवं भूतानि फलानि येषां शास्त्राणान्तानि । फलार्थी पुमान्नाद्रियेत विचारयितुं । एतच्चानुगुणोपायमित्येतस्य वैधर्म्येण विवरणं ।
पुरुषार्थः फलं येषां शास्त्राणां तानि तथोक्तानि । ततोन्यान्यपुरुषार्थफलानि । तानि च नाद्रियेत विचारयितुं ।
अशक्योपायफलस्योदाहरणं । विषेत्यादि । एवं ह्यस्य विषं शाम्यति यदि तक्षकनागराजस्य कर्णावस्थितेन रत्नेनालङ्कारः क्रियत इति । एतच्चाशक्य - साधनं ।
अपुरुषार्थफलस्योदाहरणं । काकदन्तपरीक्षावच्चेति ।
तद्विपर्ययेण तेषां यथोक्तानान्त्रयाणां विपर्येयेणोपसंहारवत् । एतेन सम्बद्धमित्येतद् व्याख्यातं । शक्योपायमित्यनेनानुगुणोपायमिति । अन्यत्रेति सम्बन्धादि -