________________
३६० प्रमाणवात्तिकस्ववृत्तिटीका (१।२१६) वक्तुर्विवक्षावृत्तित्वात् तन्नान्तरीयकतया तयैव गमका स्युः। पुरुषस्य सर्वोऽप्यभीष्टोर्थः न तथा भूतोऽस्ति चेत् तत्रानाश्रितस्वभावस्य हि नान्यो गमकः ।
अथ "प्राप्तवादाविसंवादसामान्यादनुमानता" इति आगमस्य अनुमानतैवोक्ता सा कथमिति चेत् । नायं पुरुष प्रागमप्रामाण्यमनाश्रित्य असितुं समर्थः। प्रत्यक्षफलानां प्रवृत्तिनिवृत्त्योर्महानुशंसापापयोः श्रवणात्, तद्भावे विरोधादर्शनाच्च ।
तस्मात् सति प्रवत्तितव्ये एवं प्रवृत्त इति परीक्षया प्रामाण्य माह। तच्च ।
यथाभावं यथास्वलक्षणं। यत इति यथाभावं प्रवृत्तेः शब्देभ्योर्थप्रकृतिरर्थस्वभावो निश्चीयेत। ते हीति शब्दाः। विवक्षया वृत्तिर्येषान्ते तथोक्ताः । तत्रान्तरीयका विवक्षानान्तरीयकाः। तामेव विवक्षां। सैव विवक्षा स्वलक्षणमन्तरेण न भवति (1) अतोस्त्येव शब्दानामाव्यभिचार इत्याह। न चेत्यादि। यथार्थ यथावस्तु भवितुं शीलं यासान्तास्तथोक्ताः। क्षीणदोषस्य कृपालोर्यथार्थभाविनी सर्वा इत्याह। अर्थे प्रतिबद्धोपि शब्दार्थ गमयिष्यतीति चेदाह । न चेत्यादि । तस्मिन् वस्तुन्यप्रतिबद्धः स्वभावो यस्य शब्दलक्षणस्य । अन्यं यत्रासौ न प्रतिबद्धः। ___यदि बाह्ये वस्तुनि शब्दस्य नास्ति प्रामाण्यं यत्तींदमाप्तवादाविसम्वादसामान्यात् । यो य आप्तवादः सोऽविसम्वादी। यथा "क्षणिकाः सर्वे संस्कारा" इत्यादिकः। आप्तवादश्चायमत्यन्तपरोक्षेप्यर्थे तस्मादयमप्यविसम्वादीत्येवमाप्तवादस्याविसम्वादसामान्यादविसम्वादित्वादनुमानतेत्यागमस्य बाह्यर्थेनुमानत्वम. क्तमाचार्य दिग्नागेन।
तत्कथमित्यनेनाभ्युपेतबाधामाह। नायमित्यादिना परिहरति। एतत् कथयति (1) नाचार्येण भाविकं प्रामाण्यं कथयता अनुमानत्वमागमस्योक्तमपि तु पुरुषप्रवृत्तिमपेक्ष्य। यस्मानायम्पुरुषः प्रवृत्तिकाम:5 आगमप्रामाण्यमनाश्रित्यासितं समर्थः। किङ्कारणं। प्रत्यक्ष परोक्षं फलं येषान्तेषां केषांचित प्रवत्तिनिवत्योरिति यथायोग सम्बन्धः। हिंसादिचेतनाविषयाणां निवृत्तेः स्वर्गादिफलत्वेन महानुशंसाश्रवणात् । हिंसाचेतनाविशेषाणां प्रवृत्तेर्नरकादिफलत्वेन महापापश्रवणत्वात् । न चात्र वस्तुबलप्रवृत्तमन्यत्प्रमाणं साधकमस्ति येनागममनपेक्ष्यान्यतः प्रमाणम्प्रवर्तेत।
. नापि बाधकमस्ति यतो निवर्तेत। बाधकाभावमेवाह। तद्भाव इति यथोक्ताभ्यां प्रवृत्तिनिवृत्तिभ्यामिष्टानिष्टस्य फलस्य भावे विरोधादर्शनाच्च इच्छति चायमागमवशेन प्रवत्तितुं तत् सति प्रवत्तितव्ये। (२१५-१६) ?