________________
६. प्रागम-चिन्ता
३८६ ६. आगम-चिन्ता यदुक्तं प्रमाणत्रयनिवृत्तावपि न हि वस्त्वभावासिद्धिरिति तदन्यप्रमाणनिवृत्तौ न स्यात् । तयोहि सकलविषयित्वाभावात् । अत्रागमो न किञ्चिद् व्याप्नोति । तन्निवृत्तिः यथा' न गमिकेति चेत् । उक्तमत्र प्रागमेषु सर्वार्थानुपयोग 484b इति अप्रकरणापन्नत्वात्। अपि च ।
नान्तरीयकताऽभावाच्छब्दानां वस्तुभिस्सह ॥२१५॥
नार्थसिद्धिस्त तस्ते हि वक्त्रभिप्रायसूचकाः। यथाभावं न हि शब्दानां प्रवृत्तिः। यतस्तेभ्योऽर्थप्रकृतिनिश्चीयेत । ते हि
तेन यदुच्यते उ द्यो त क रा दिभिः। यदि प्रमाणेन प्रधानं सत्त्वेन कल्पितं कथमस्यानुपलब्धिर्धर्मः प्रतीयते। अथासत्त्वेन कल्पितं प्रधानन्तथापि कथमस्यानुपलब्धिर्धर्मोऽसत्त्वादिति (1)
तदपास्तं। यस्मात् कल्पनाज्ञानविषयत्वाच्छब्दार्थ एव कल्पितः। न तु प्रमाणेन बाह्यं प्रधानं सत्त्वेन कल्पितं। तस्येति प्रधानशब्दार्थस्य बाह्यप्रधानवस्त्वाश्रयणानुलम्भ इत्ययमभिप्राय आचार्य दि ग्ना ग स्य। (२१४-१५)
यदुक्तमित्यादि परः। प्रमाणत्रयं प्रत्यक्षानुमानागमलक्षणं। अन्यप्रमाणनिवत्ताविति प्रत्यक्षानमाननिवृत्तौ निवृत्तिर्देशादिविप्रकृष्टानां । तयोरिति प्रत्यक्षानुमानयोः। न किञ्चद् व्याप्नोति सर्वमेव विषयीकरोति। तन्निनिवृत्तिरागमनिवृत्तिः।
उक्तमत्रेति सि द्धा न्त वा दी। अप्रकरणापन्नत्वादिति पुरुषार्थचिन्ताप्रप्रस्तावानुपयोगित्वात्। “शास्त्राधिकारास'म्बन्धा बहवोर्था' इत्यत्रान्तरे (१।२०१) Iaob उक्तत्वात्।
एतच्च बाह्येषु आगमस्य प्रामाण्यमभ्युपगम्योक्तम् (1)
अधना नैव बाह्येर्थस्य प्रामाण्यमित्याह। अपि चेत्यादि। वस्तभिस्स्वलक्षअस्सह । शब्दानान्तरीयकताया अविनाभावस्याभावात् तेभ्यः शब्देभ्यो नार्थसिद्धिर्न बाह्यवस्तुनिश्चयः । यस्मात्ते हि वक्त्रभिप्रायसूचकाः।
यद्यपि घटविवक्षातः पटशब्दस्योत्पत्तिस्तथापि स्थानकरणाभिघातादेरेव साक्षात् करणात् तदुत्पत्तेर्व्यभिचाराभावान्नाहेतुकत्वं (1) यश्च घटविवक्षाजन्यं घटशब्दम वधारयति। तस्य पटशब्दात् पटविवक्षानुमानन्तदवधारणं च प्रकरणादिना लोकस्य विद्यत एवेति विवक्षानुमानेऽव्यभिचार एव।