SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३८८ प्रमाणवात्तिकस्ववृत्तिटीका (१।२१५) तस्मादयं प्रवर्त्तमानः सर्वदा भावाभावविचारेऽवधीरितविकल्पप्रतिभासोऽनपेक्षितो यत्रायं पुरुषार्थः प्रतिबद्धः (तद्) एव वस्तु अधिष्ठानीकरोति । यथाऽग्नौ शीतप्रतिघात इति। न हि अत्र शब्दार्थशक्ति रस्ति। तदनुभवाप्तावपि तदभावात् । तदयमर्थक्रियार्थी तदसमर्थ प्रति दत्तानुयोगो न युक्तः। न हि वृषस्यन्ती षण्ढस्य रूपवैरूप्यापरीक्षायामवधत्ते। घ. कल्पितस्यानुपलब्धिः यत् पुनरेतदुक्तं निरूपणानुपलम्भो धर्म इति । .. शब्दार्थः कल्पनाज्ञानविषयत्वेन कल्पितः ॥२१४॥ धर्मो वस्त्वाश्रयासिद्धिरस्योक्ता न्यायवादिना। कल्पनाविषयत्वाच्छब्दार्थ एव कल्पितः। तस्य हि वस्त्वाश्रयणानुपलम्भधर्म इत्यभिप्रायः। सत्त्वावविद्यमानत्वात् । यथातत्त्वं वा समीहितत्वात् । यथार्थस्वलक्षणं ज्ञानस्वलक्षणम्वा स्थितन्तथा शब्देनाविषयीकृतत्वात् । यत एवन्तस्मादयं पुरुषस्सदसच्चिन्तायां प्रवर्त्तमानः सर्वदाऽवधीरितविकल्पप्रतिभासोऽनपेक्षितविकल्पप्रतिभासो वस्त्वेवाधिष्ठानीकरोति विषयीकरोति यत्र वस्तुन्ययं पुरुषार्थः प्रतिबद्धः। अग्नावित्यग्निस्वलक्षणे। आदिग्रहणाद् दाहपाकादि। __ स्यादेतद् (1) ईदृशोर्थः शब्दार्थेनापि साध्यत इत्याह। न हीत्यादि। अत्रेति शीतप्रतिघातादौ। कस्मात् तदनुभवाप्तावपि। तस्य शब्दार्थस्यानुभवाप्तावपि । तदभावात् तस्य शीतप्रतीकारादेरभावात्। तत् तस्मादयमर्थक्रियार्थीपुरुषः । सवसमर्थन्तस्यामर्थक्रियायामसमर्थं शब्दार्थं प्रति वत्तानुयोगो दत्तावधानो भवितुन्न युक्तः। न हि वृषस्यन्ती मैथुनमिच्छन्ती षण्ढस्य परिचरितुमशक्तस्य रूपवैरूप्यपरीक्षायामवधत्तेऽवधानवती भवति। ___ उ द्यो त क रा धुक्तदूषणनिरासार्थं पृच्छति। यत्पुनरेतदुक्तमाचार्य दि ग्ना गेन (1) कल्पितस्येत्यादि। तस्य कोर्थः। उत्तरमाह। शब्दार्थ इत्यादि। कल्पनाज्ञानविषयत्वाच्छब्दार्थः प्रधानादिशब्दार्थः। कल्पितो वस्तुनो बाह्यस्य प्रधानलक्षणस्याश्रयणन्तेनासिद्धिरनुपलब्धिरस्य प्रधानादिशब्दार्थस्य धर्म उक्तो लिङ्गभूतो भावानुपादानत्वे साध्ये। न्यायवादिनाचार्य दि ग्ना गे न।
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy