________________
३८७
५. शब्द-चिन्ता शब्दार्थापह्नवे साध्ये धर्माधारनिराकृतेः ॥२११॥
न साध्यः समुदायः स्यात् सिद्धो धर्मश्च केवलः। यदि शब्दार्थस्यैवापलापे प्रधानशब्दवाच्यस्य धर्मिणो हि निराकृतेः साध्यधर्माश्रयाभावः स्यात् । तद् अयं प्राधारव्यवच्छेदानपेक्षो न विवादास्पदमिति नोपन्यसनीय एव। अपि च।
सदसत्पक्षभेदेन शब्दार्थानपवादिभिः ॥२१२॥ वस्त्वेव' चिन्त्यते ह्यत्र प्रतिबद्धः फलोदयः ।
484a अर्थक्रियाऽसमर्थस्य विचारैः किं तदर्थिनाम् ॥२१३॥
षण्ढस्य रूपवैरूप्ये कामिन्याः किं परीक्षया। न हि शब्दार्थोऽसन् कंचित् पुरुषार्थमुपरुणद्धि, सन् वा समादधाति । यथाभिनिवेशं तस्याऽसत्त्वात्। यथातत्त्वं वाऽनवस्थितत्वात्।
स्थापनाय शब्दप्रयोगात। तदभावे विकल्पप्रतिभास्यर्थाभावे। तवयोगाच्छब्दप्रयोगायोगात्।
अपि च यदि शब्तार्थस्य वापह्नवः साध्यते। तदा शब्दार्थापह्नवे साध्ये तस्य साध्यधर्मस्य नास्तित्वस्य य आधारो धर्मी शब्दार्थलक्षणस्तस्य निराकृतेर्न साध्यः धर्मिधर्मात्मकः समुदायः स्यात्। केवलश्च साध्यधर्मस्सिद्ध एव। नास्तित्वमात्रस्य क्वचित् सिद्धत्वात् ।
यदीत्यादि विवरणं। तदिति तस्मादयं साध्यधर्मः आधारेण यो व्यवच्छेदो विशेषणमस्येदं नास्तित्वन्तदनपेक्षः। इति हेतो!पन्यसनीय एव विवादकाले। (२११-१२)
सदसत्पक्षभेदेनेति सदसत्प्रतिज्ञाभेदेन वस्त्वेव चिन्त्यते। शब्दार्थानपवादिभिरथक्रियाथिभिः प्रेक्षावद्भिः । यस्मादत्र वस्तुनि प्रतिबद्धः फलोदयः। (२१२-१३) ___ यदि नामवन्तथापि किन्न शब्दार्थो विचारणीय इत्याह (1) अर्थेत्यादि। अर्थक्रियां प्रत्यसमर्थस्य शब्दार्थस्य विचारः सदसत्त्वविचारैः किन्तद'दथिनामर्थ- 140a क्रियार्थिनां (1) निदर्शनमाह षण्वस्येत्यादि। पुंस्त्वरहितस्य यद् रूपवैरूप्यन्तस्मिन् विषये कामिन्या मैथुनाभिलाषिण्याः किम्परीक्षया। (२१३-१४) __न हीत्यादि विवरणं । न हि शब्दार्थोऽसन कंचित् पुरुषार्थमुपरुणद्धि निवर्तयति । सन् वा समादधाति करोतीति यथायोग सम्बन्धनीयं । किं कारणं (1) यथाभिनिवेशं पुरुषस्तं! शब्दार्थम्बाह्यतयाऽभिनिविशतेऽध्यवस्यति तथा तस्या