________________
३८६
प्रमाणवात्तिकस्ववृत्तिटीका (१।२११) यात्। वस्तुनि विपरीताकाराभिनिवेशेषु तीर्थान्तरीयप्रत्ययेषु च भावात् ।
परमार्थंकतानत्वे शब्दानामनिबन्धना ॥२०९॥ न स्यात् प्रवृत्तिरर्थेषु दर्शनान्तरभेदिषु । अतीताजातयोर्वाऽपि न च स्यादनृतार्थता ॥२१०॥ वाचः कस्याश्चिदित्येषा बौद्धार्थविषया मता।
--इति संग्रहश्लोको। .. तस्य च यथा समीहितरूपानुपादाने साध्ये तथाऽत्रानुपलम्भधर्मत्वात्, न
साध्य'धर्मासिद्धिः।
न पुनरत्र शब्दप्रतिभास्यर्थोऽपह्न यते । तस्य बुद्धौ उपस्थापन 'शब्दप्रयोगात् । तदभावे हि तदयोगात्।
अपि च।
कारणम् (1) असंप्राप्तेऽनुत्पन्ने स्वलक्षणे निरुद्ध च तस्य विकल्पप्रतिभासस्यानपायात् । किं च वस्तुनि घटादौ विपरीताकारः परस्परविरोधिनो नित्यानित्यादयः। तानभिनिवेष्टुं शीलं येषान्तीर्थान्तरीयप्रत्ययानान्तेष भावाच्छव्दार्थप्रतिभासस्य । न च स एवार्थः स्व लक्षणमिति प्रकृतेन सम्बन्धः ॥ (२०६-१०) ___ अमुमेवार्थं संग्रहीतुमाह। परमार्थः स्वलक्षणन्तस्मिन्नेकस्थानः प्रवृत्तिर्येषान्तभावस्तत्त्वन्तस्मिन्सति शब्दानामनिबन्धना परमार्थनिबन्धनरहिता प्रवृत्तिर्न स्यात्। दर्शनान्तरभिन्नेष्वर्थेषु । सिद्धान्तभेदभिन्नेषु। अतीताजातयो
पीति अतीतानगते चार्थे शब्दानाम्प्रवृत्तिर्न स्यात् । तथा कस्याश्चिद् वाचो (5) भूतार्थता मृषार्थता न स्यात् । इति यथोक्ताद्धेतोरेषा वाक् । बौद्धार्थविषया। विकल्पप्रतिभास्यर्थविषया मता । (२१०-११) , - तस्य चेति प्रधानादिविकल्पप्रतिभासस्य। यथासमीहितं रूपं यथापरिकल्पितम्वाह्यप्रधानादिरूपन्तदनुपादानत्वे साध्ये। तथानुपलम्भ इति यथा समीहितरूपोपादानत्वेनानुपलम्भोस्तीति कृत्वा 4 न साधनधर्मासिद्धि पक्षधर्मो हेतुरित्यर्थः।
- न पुनरत्र प्रयोगेऽयमेव शब्देत्यादि। शब्दादुत्पद्यते यो विकल्पस्तत्प्रतिभास्यर्थोपहनूयते। किं कारणं (1) तस्य विकल्पप्रतिभास्यर्थस्य श्रोतृबुद्धावुप
1Bsgrub-par.bya-bahi-chos.
Bskyed. pahi-phyir.