________________
५ शब्द-चिन्ता
३८५
स तु विकल्पः सदसदुभया कारप्रत्ययाहिंतवासनाप्रभवत्वात्, तत्प्रतिभास्याकाराध्यवसायवशेन च भाव (भाव) भयधर्म इत्युच्यते। ___ तद् अत्र धर्मिणि पाश्रित्य कथं प्रधानशब्दात् प्रतिभासमानोह्य यमर्थो न 483b भावोपादान इति सदसत्त्वं चिन्तयन्ति । तस्य भावानुपादानत्वे साध्ये स एव प्रत्यात्मवेद्यत्वात् अप्रतिक्षेपार्हो धर्मी ।
न च स एव स्वलक्षणमिति शक्यं वक्तुम् । असंप्राप्ते निरुद्ध चार्थे तस्यानपा
प्रतिभासि यद्रूपन्तद्विषयत्वेन तन्न शक्यनिश्चेतुं। तत्रोपादानप्रत्ययो वक्तुः प्रतिपादनसमीहारूपो विकल्पः शब्दस्य कारणत्वात् । कार्यप्रत्ययः शब्दोत्थः श्रोतुर्विकल्पः। न हि स शब्दार्थो यः शब्दे प्रत्यये न प्रतिभासते। न च तत्र स्वलक्षणं प्रतिभासते। स्पष्टाकारविवेकात् ।
___ ननु कथं विकल्पाभावाश्रयोऽर्थजन्यत्वेनाविकल्पकत्वप्रसंगात् । कथ'ञ्चाभावाश्रयोऽभावस्याकारणत्वात् । कथञ्चैक उभयाश्रयोऽहेतुकत्वप्रसङ्गादित्यत आह। स त्वित्यादि। सदसदुभयाकारो विकल्पः सदसदुभयप्रत्ययस्तेनाहिता वासना ततः प्रभव उत्पादो यस्य स तथोक्तः । इति हेतोर्भावाभावो. भयधर्म इत्युच्यते।
द्वितीयं कारणमाह। तदित्यादि। तस्मिन्नेव विकल्पे प्रतिभासी य प्राकारस्तस्य सदसदुभयरूपतयाध्यवसायस्तद्वशेन च। भावाभावोभयधर्म इत्युच्यते। (२०६)
एतदुक्तम्भवति। सत्प्रत्ययाहितवासनाप्रभवस्सदाकाराध्यवसायीव भावधर्म इत्युच्यते । एवमभावोभयधर्मयोरपि द्रष्टव्यं पूर्वपूर्वसदादिप्रत्य याहितवासनाप्रभवत्वादेव सदादिविकल्पानामनादित्वम् (1) अतो न भावादिजन्यत्वं । यतश्च शब्दार्थस्त्रिविधः। तत्तस्मादत्र शब्दार्थे धर्मिणि व्यवस्थिता विवादाश्रयत्वेन स्थिताः पुरुषास्सदसत्त्वं प्रधानादेश्चिन्तयन्ति। कथं चिन्तयन्तीत्याह। किमयं प्रधानशब्दादुच्चरिताद् विकल्पप्रतिभासमानोर्थो बाह्यप्रधाननिबन्धनो भवति न वेति। तस्य प्रधानादिविकल्पप्रतिभासस्य भावानुपादानत्वे धर्मे साध्ये 139b स एव विकल्पप्रतिभासो बुद्धिस्वभावतया प्रत्यात्मवेद्यत्वात स्वसम्वेदनप्रत्यक्षसिद्धत्वादप्रतिक्षेपार्होर्थो धर्मी। ___ ननु च स एव विकल्पग्राह्यार्थः स्वलक्षणं स्वलक्षणरूपतयाध्यवसायात् । ततश्च प्रत्यक्ष सिद्ध एव प्रधानादिः शब्दश्च स्वलक्षणविषय इत्याह। न च स एवेत्यादि । स एव विकल्पप्रतिभास्यर्थो बाह्यं स्वलक्षणमिति शक्यम्वक्तुं । किं
४६