________________
३८४
प्रमाणवात्तिकस्ववृत्तिटीका (१।२०६) नैष दोषः, एवं--
अनाादवासनोद्भूतविकल्पपरिनिष्ठितः ॥२०७।। शब्दार्थस्त्रिविधो धर्मी भावाभावोभयाश्रयः। तस्मिन्भावानुपादाने साध्येऽस्यानुपलम्भनम् ॥२०८।।
तथा हेतुन तस्यैवाभावः शब्दप्रयोगतः । निवेदितं तावत् यथा एते शब्दा न स्वलक्षणविषयाः। अनादि कालीनवासनाप्रभवे विकल्पे प्रतिभासिनमर्थ विषयत्वेनात्मसात् कुर्वन्ति ।। ___ वक्तुस्तु तद्विकल्पभाजः श्रोतुश्च यथा प्रतिभासि वस्तु प्रतिपादन समीहया प्रयोगात् । तदाकारविकल्पजननात् ।
न चोपादानकार्यप्रत्ययेऽप्रतिभासिरूपविषयत्वेन तत् शक्यं निश्चेतुम्। ।
नैष दोष इति परिहारः। यस्मादनादेर्वासनायास्समुद्भूते विकल्पे परिनिष्ठितस्समारुढः शब्दार्थः स च भावाभावोभयाश्रितत्वात् त्रिविधो धर्मः । तस्मिन् शब्देर्थे वाह्यप्रधानादिको भावोनुपादानमस्येति तस्मिन् भावानुपादाने साध्ये।
अस्येति बुद्धिपरिवर्तिनः प्रधानादिमिणः। तथेति बाह्यप्रधानाधुपादानत्वे139a नानुपलम्भनं हेतुः। वासनोपादानत्वेनोपलम्भन'मेवात्रानुपलम्भनं। न तस्यैव
विकल्पप्रतिनिष्ठितस्य धर्मिणोऽभावस्साध्यते। कस्मात् (1) प्रधानादिशब्दानां प्रयोगतः। तन्निषेधे हि निविषयत्वाच्छब्दप्रयोग एव न स्यात् ।
निवेदितमित्यादिना व्याचष्टे । यदि हि स्वलक्षणमभिधेयं स्यात् तदा स्वलक्षणप्रतिषेधे शब्दार्थस्य प्रतिषेधात् तद्वाचिनः शब्दस्याप्रयोगः स्यात् । यावता निवेदितमेतद् यथते शब्दा न स्वलक्षणविषया इति। किन्त्वनादिवासनायाः प्रभव उत्पादो यस्य विकल्पस्य तस्मिन् प्रतिभासी योर्थस्तम्विषयत्वेनात्मसात्कुर्वन्ति। .. कुत एतद् विकल्पविषयमेवार्थम्विषयीकुर्वन्तीत्याह। वक्तुस्तद्विकल्पभाज इति भावाभावोभयाश्रयसामान्याकारविकल्पभाजः (1) कारणमाह। यथेत्यादि। यथाप्रतिभासि वस्तु। प्रतिभासिवस्त्वनतिक्रमेण या प्रतिपादनसमीहा तया शब्दप्रयोगात्। तस्माद् विकल्पप्रतिभासिन एवार्थान् शब्दा विषयीकुर्वन्ति।
तथा श्रोतुश्च तद्विकल्पभाज इति सम्बन्धः। किं कारणं (1) तदाकारविकल्पजननात् । भावाभावोभयाश्रयसामान्याकारविकल्पजननाच्च विकल्पप्रतिभासिन एवार्थान् शब्दा विषयीकुर्वन्ति ।
स्यादेतद् (1) यदि नामैवन्तथापि कथन्न स्वलक्षणविषया शब्दाः स्वलक्षणप्रतीतेरित्याह। न चेत्यादि। उपादानं च कायं च ते एव प्रत्ययो ज्ञानन्तत्रा