________________
५. शब्द-चिन्ता
३८३
स एव तावदुपलब्ध्यभावः कथं सिद्ध इति चेत् । एतदुत्तरत्र वक्ष्यामः ।
अन्यत्रापि अनुमाने साध्यधण व्यापके इच्छन् किमिति भावः प्रत्याय्यः । व्याप्य'स्य निर्देशादेव व्याप्नवतः सिद्धेः।
483a - निश्चितार्थसम्बन्धस्यापि दृष्टान्तेन स्मृत्यर्थश्चेत् तदेतदत्रापि तुल्यम् । सोऽयमन्यत्रापि अनुपलब्धिमात्रेण अभावव्यवहारकल्पना मूढ प्रति स्मृतिजननमत्र।
कथं च यद् “न सन्ति प्रधानादयोऽनुपलब्धः। तत्र कथं अभावव्यवहारसिद्धिर्वा सत्ताव्यवहारनिषेधे कथं स्यात। तदर्थनिषेधे धमिवाचिनोऽभिधानस्याप्रयोगात, निविषयस्य प्रतिषेधस्य चायोगात् ।।
स्मादनुपलम्भोयं प्रत्यक्षेणैव सिध्यतीति। यत्पुनरुक्तमनुपलब्धौ किन्दृष्टान्तोपदर्शनेनेत्याह। अन्यत्रापीत्यादि। विधिसाधनेप्यनुमाने साध्यधर्मेण व्यापकेन व्याप्यधर्म कृतकत्वादिकं साधनमिच्छन् प्रतिपाद्यः किमिति दृष्टान्तेन प्रत्याय्यः । किङ्कारणं (1) यथास्वं साध्येन व्याप्यस्य हेतोनिर्देशादेव व्याप्नुवतः साध्यधर्मस्य सिद्धः। निश्चितार्थस्सम्बन्धलक्षणो येन तस्य व्यामूढम्प्रति स्मृत्यर्थः। तदेतद् दृष्टान्तेन मूढं प्रति स्मृतिजननमत्रानुपलब्धौ। एतदेवाह। सोयमित्यादि। अन्यत्रापीति शशविषाणादौ (१२०५-६) ___ अथ यदिदमाचार्य दि ग्ना ग प्रभृतिभिरुक्तं। “न सन्ति प्रधानादयोनुपलब्धे" . रिति तत्र प्रयोगे। आचार्य आह। कथं च न स्यादिति ।
चोदक: स्वाभिप्रायेणाह। तदर्थेत्यादि। तदर्थस्य प्रधानार्थस्य निषेधे सति प्रधानादिमिवाचिनोभिधान स्याप्रयोगात्। न हि वाच्यमन्तरेण वाचकस्य प्रयोगोस्ति। यदा च प्रधानादिशब्दानामप्रयोगस्तदा न सन्तीति प्रतिषेधवाच्येव शब्दोवशिष्यते। तस्य च प्रतिषेध्यासंकीर्तने निविषयस्य प्रतिषेधस्येति प्रतिषेधवाचिनः शब्दस्याप्रयोगात्। तथा च न सन्ति प्रधानादय इति द्वयोरपि प्रतिज्ञापदयोरप्रयोगात्। कुत्र किं साध्यत' इति व्यर्थानुपलब्धेः साधनयोगः । प्रधानादीनां च पक्षभूतानामभावाद् पक्षधर्मो हेतुः स्यात् । प्रतिज्ञापदयोर्वा परस्पर विरोधस्तथा हि प्रधानादय इति प्रयोगात तदर्थसन्निधानं । पूनर्न सन्तीति वचनात तेषामसन्निधानं । एते च सन्निधानासन्निधाने यगपदेकत्र विरुध्यते । (२०६-७)
1Run. bahi-phyir.