________________
३८२
प्रमाणवात्तिकस्ववृत्तिटीका (१।२०७) दृष्टान्तः। न हि निरुपाख्यं केवलम्। निरुपाख्येऽपि इयमेव प्रवृत्तिनिषिध्यते. अनुपलब्धिलक्षणाया असत्तैव सिद्धा। निमितदभावमभ्युपगम्य प्रवृत्ति निवृत्ति च विलोमयन् तत्र यथाभ्युपगमं निरुपाख्यं अन्यद् वा प्रतिपाद्यते ।
मस्तकाद्युपलब्धिरेवानुपलब्धि: पर्युदासवृत्त्या। सैव लक्षणं यस्याः शशविषाणासत्तायाः सा सिद्धव।
स्यादेतद् (1) अदृश्यानुपलब्धावसत्त्वे विषयभूते सिद्धे । तन्निमित्तोप्यसद्वयवहारः सिद्ध एवेति किन्तेनासद्व्यवहारेण। अदृश्यानुपलब्धावपि सद्व्यवहारनिमित्तस्याभावाद् व्यवहाराप्रवृत्तिः सिद्धैवेति सद्व्यवहारनिषेधेनापि साधितेन किं। ___ तथा पूर्वप्रसिद्धविषयोपदर्शनलक्षणेन दृष्टान्तेनाप्यनुपलब्धौ न किंचित प्रयोजनमित्यत आह। सोयमित्यादि। मूढं प्रत्येतत् साध्यत इति यावत् ।। __ क्वचिदप्यसद्वयवहारनिमित्तं दृश्यानुपलम्भमभ्युपगम्यासद्वयवहारप्रवृत्तिम्विलोमयन्नकुर्वन्। अदृश्यानुपलब्धौ तदभावं च सद्व्यवहारनिमित्तस्य प्रमाणस्याभावं चाभ्युपगम्य सद्वयवहारनिवृत्ति च विलोमयन्नकुर्वन्। यथाभ्युपगमं प्रतिपाद्यत इति दृश्यानुपलम्भेन निमित्तेन त्वयाऽसद्व्यवहारोन्यत्र कृतस्तदिहाप्यस्ति (1) तस्मादसद्व्यवहारङ् कुर्विति प्रतिपाद्यते। तथा प्रमाणेन निमित्तेन त्वया क्वचित् सद्व्यवहारः कृतस्तदिहाप्यनिरुपाख्ये नास्ति। तस्माद् सद्व्यवाहारम्मा कुर्विति प्रतिपाद्यते। किमिव निरुपाख्यवत्। यथा शशविषाणादावसद्व्यवहार
निमित्तस्य दृश्यानुपलम्भस्य भावादसद्व्यवहारस्तथेहापीति। 138b अन्यद्वेति. (1) यथा सन्निहितनिमित्तस्याऽङकुरादेः प्रतिपत्तिरेव सद्व्यवहार
स्यापीति। यथा च निरुपाख्य प्रमाणाभावात् सद्व्यवहारस्य निवृत्तिः। अन्यस्मिन् वा कारणविकले कार्ये निवृत्तिस्तद्वद् विप्रकृष्टेषु सद्व्यवहारस्य निवृत्तिरिति प्रतिपाद्यते। ___ स एव तावदुपलब्ध्यभावोनुपलब्ध्याख्यः कथं केन प्रमाणेन सिद्धः (1) न प्रत्यक्षेणाभावविषयत्वविरोधात् । नाप्यनुमानेन प्रत्यक्षपूर्वकत्वादस्य। नापि प्रदेशसम्बन्ध्यनुपलम्भोऽभावस्य नीरूपत्वेन सम्बन्धित्वायोगात्। प्रदेशस्यानुपलम्भे च धर्मसिद्धेराश्रयासिद्धो हेतुरित्यनुपलब्धेर्न पक्षधर्मत्वमित्युद्यो त क र प्रभृतय:।
अत्राह। एतदुत्तरत्र वक्ष्यामस्तद्विशिष्टोपलम्भोऽतस्तस्याप्यनुपलम्भनन्त