________________
५. शब्द-चिन्ता
३८१
चाप्रतिपत्तिः। तस्माद् अनुपाख्यासिद्धिवदन्यत्रापि दृष्टान्तानपेक्षणादननुमानम् ।
शृण्वन्नपि देवानां प्रियः नावधारणपरः। असच्छब्दव्यवहाराणां निमित्तं सोपलब्धिहि स्वसन्निधानात्, स्वनिमित्तसामग्रीयोगसन्निधानः सर्वोऽत्र दृष्टान्तः । असत्तैवात्र अनुपलब्धिः। अत एवेयं कारणात् कार्यानुमानलक्षणेति, ततः स्वहेतावन्तर्भवतीति वक्ष्यामः ।।
सच्छब्दव्यवहारनिषेधेऽपि प्रमाणनिवृत्या निमित्तवैकल्येन अंकुरादयोऽपि
पटुर्येन सत्यपि दृष्टान्ते तदसिद्धिश्चोद्यते। दृष्टान्तमेव ' दर्शयितुमुपक्रमते । निमित्तं हीत्यादि । उपलभ्यानुपलब्धिदृश्यानुपलब्धिर्या निमित्तं कारणमसद्वयवहाराणां। सेत्यनुपलब्धिः स्वसन्निधानादात्मसन्निधानात् । स्वनिमित्तान् स्वमनुपलब्धिरूपं निमित्तं येषान्तानेतानसद्वयवहारान् साधयतीति कृत्वा सर्वोत्र दृष्टान्तः। किंभूतः (।).स्वनिमित्तसामग्रीयोग्यसन्निधानः । स्वकारणानां सामग्री तस्यां योग्यं सन्निधानं यस्याङकुरादेस्स तथोक्तः (1) प्रयोगः पुनः। यस्य यत्र निमित्तं सकलमप्रतिबद्वमस्ति तत्र तेन भवितव्यन्तद्यथाङकुरादि।' अस्ति 381a चोपलब्धिलक्षणप्राप्तस्यानुपलब्धावसद्व्यवहाराणां निमित्तत्वमिति स्वभावहेतुः । कस्माद् (1) अत्राभावव्यवहार एव साध्यते न पुनरभाव एवेत्याह। असत्तेत्यादि। अत्र दृश्यानुपलब्धावनुपलब्धिरेव सत्ता। यथोक्तं प्राक्। तस्मादभावो न (?) साध्यते। यत एवात्राभावव्यवहारः साध्यतेऽत एवेयमनुपलब्धिः स्वभावहेतावन्तर्भवतीति सम्बन्धः । कारणाद् दृश्यानुपलम्भात् कार्यस्यासद्वयवहारस्यानुमानं तदेव लक्षणं यस्येति सामान्येनान्यपदार्थमुपंदर्य पश्चाद् भावप्रत्ययः। समग्रात् कारणात कार्यानुमाने च योग्यतानुमानमिति स्वभावहेतावन्तर्भावः (1) वक्ष्यामश्चतुर्थे परिच्छेदे ( )।
दृश्यानुपलब्धौ भवतु दृष्टान्तोऽदृश्यानुपलब्धौ तु कथमित्याह। सच्छब्देत्यादि देशादिविप्रकृष्टेषु प्रमाणनिवृत्त्या सवयवहारनिषेधे साध्ये कारणाभावात् कार्यस्याभावः साध्यस्तेनात्र न केवलन्निरुपाख्यं दृष्टान्तः किन्तु निमित्तस्य कारणस्य वैकल्येनाभांविनोङ्कुरादयोपि दृष्टान्तः । प्रयोगस्तु (1) यद्विकलकारणन्तन्न भवति यथा बीजरहितोङकुरः। विकलकारणश्चादृश्यानुपलब्धौ सद्यवहार इति कारणानुपलब्धिः।
यत्पुनरुक्तं (1) तदसन्निरुपाख्यं कथं प्रतिपत्तव्यमिति तत्रापि निरुपाख्ये दृष्टान्ते। इयमेवमज्ञानव्यवहारलक्षणा प्रवृत्तिनिषिध्यते। अनुपलब्धितो न त्वभावः साध्यते। किङ्कारणम् (1) अनुपलब्धीत्यादि। विषाणादिविविक्तशश