________________
प्रमाणवात्तिकस्ववृत्तिटीका ( ११२०७ )
यो हि भावो येन सह युगपद् नावतिष्ठते, तदुपादाने परस्परवैगुण्याश्रयत्वेनारम्भविरोधात् । तयोर्विरुद्धयोरेकस्य भावेऽप्यन्याभावे गतिर्भवति । यथोक्तं प्राक् । तत एवानुपलब्धेर्नैव भेदो व्यवस्थाप्यः । तत एव विरोधगतेः, विरोधाच्चाभावसाधनाद् ।
३८०
भवतु नामैवंविधाया अनुपलब्धेरभावगतिः । कथं न स्यात् । दृष्टान्ता482b पेक्षाभावात् । न ह्यस्यां काचिदपि सत्ता किन्न व्योमकुसुमा' द्यनुपाख्यमिति अदृष्टान्तः । तदसदिति कथं अवगन्तव्यं येनैवं स्यात् । श्रनुपलब्धेरेव चेत् । तत्रापि कथमदृष्टान्तिकाऽसत्तासिद्धिः, सदृष्टान्त त्वे वाऽनवस्थाप्रसंगः। तथा
योरेकत्र युगपदारम्भविरोधात् । तयोविरुद्धयोरेकस्य भावेप्यन्याभावगतिर्भवति । यथोक्तं प्रागनुपलब्धिप्रभेदे । "न शीतस्पर्शोत्राग्नेरित्यादि । यद्यप्यत्रानुपलब्धिरिति न श्रूयते तथापीदं स्वभावविरुद्धाख्यं लिङ्गमनुपलब्धेस्सकाशान्न± पृथगुच्यते (।) किङ्कारणं ( 1 ) तत एवानुपलम्भाद् विरोधगतेः । विरोधाच्चाभावसाधनादित्युक्तं ।
भवतु नामैवम्विधाया दृश्यानुपलब्धेः सकाशाद् भावगतिः । सा पुनः कथमनुमानं (1) नैवानुमानं किन्तु प्रमाणान्तरमेवेति भावः ।
कथन्न स्यादित्या चार्यः ।
दृष्टान्तेत्यादि परः । दृष्टान्तापेक्षं ह्यनुमानमन्वयव्यतिरेकवत्त्वात् । दृष्टान्तापेक्षणमेवाह। न हीति । अस्यामित्यनुपलब्धौ ।
किन्नेत्याचा र्यः ।
2
तदित्यादि परः । तद् व्योमकुसुमादि। असदिति कथं केन प्रमाणेनावगन्तव्यं येनैवं स्याददृष्टान्तः स्यात् । श्रनुपलब्धेरेव लिङ्गाद् व्योमकुसुमाद्यसदवगन्तव्यमिति चेत् । तत्रेति व्योमकुसुमादौ । कथमदृष्टान्तिका दृष्टान्तरहिताऽसत्तासिद्धिः । सदृष्टान्तत्वे वानवस्थाप्रसंग इति तत्राय ( प ) रोपीति कृत्वा । तथा चेत्यनवस्थायां सत्यां साध्यस्याप्रतिपत्तिः । यतश्च दृष्टान्तत्वेनवंस्थादोषः । तस्मान्निरुपाख्याभावसिद्धिरदृष्टान्तिका कर्त्तव्या । तद्वदन्यत्रापि ( 1 ) नेह घटोनुपलब्धिलक्षणप्राप्तस्यानुपलब्धेरित्यादावपि प्रयोगे दृष्टान्तानपेक्षणादननुमानमनुपलब्धि: ( 1 )
श्रृण्वन्नपीत्या चार्यः । असकृदुक्तमेतत् । यथा स्वभावानुपलब्धौ नाभावः साध्यते किन्त्वभावव्यवहार इति श्रृण्वन्नपि देवानां मूर्खाणां प्रियो नावधारण