________________
५. शब्द - चिन्ता
भावो हि यथास्वं ग्राहकेण यदि उपलभ्य एव भवेत् । स दर्शनप्रतिबन्धिषु व्यवधानादिषु असत्सु उपलब्धिरेव । अनुपलब्धस्त्वसन्निति निश्चीयते । उपलम्भाव्यभिचारात्। अयमेव हेतुर्हेतुव्यापकयोरभावेऽपि वेदितव्यः ।
ग. अनुपलब्धिरेवाभाव:
विरुद्धस्य च भावस्य भावे तद्भावबाधनात् || २०६॥ तद्विरुद्धोपलब्धौ स्यादसत्ताया' विनिश्चयः ।
३७६
कार्ये व्याप्ये च संशयात् । ( २०४ - ५ )
यदि स्वभावाभावे साध्ये तदनुपलम्भ एवाप्रमाणमुच्यते । कथमिदानीम्भावस्य घटादेः स्वयमनुपलब्धेरभावसिद्धिः ।
उत्तरमाह । वृश्यस्येत्यादि । विप्रकृष्टे विषये स्वभावानुपलम्भे प्रमाणमुक्तं । न तु दृश्यविषय इत्यर्थः । दृश्यस्येति स्वभावाद्यविप्रकृष्टस्य भावस्यानुपलब्धस्य सतः । भावस्य सत्ताया अभावः प्रतीयते । कदा दर्शनाभावकारणासम्भवे सति । दर्शनाभावस्य कारणं कारणान्तराणां वैकल्यन्तस्यासम्भवे सति । उपलम्भप्रत्ययान्तरसाकल्ये सतीत्यर्थः ।
भावो हीत्यादि विरणं । स्वभावाद्यविप्रकृष्टो भावो यदि भवेत् । यथास्व ग्राहकेण करणेनेति यस्य यद् ग्राहकमिन्द्रियन्तेनोपलभ्य एव भवेत् स इति यथोक्तो भावः । दर्शनप्रपिबन्धिषु व्यवधानादिषु ( 1 ) आदिशब्दाद् वैकल्यप्रतिबन्धादिष्वसत्सु। उपलम्भप्रत्ययेषु सत्स्विति यावत् । ( २०५-६)
तथा भूतोनुपलब्धस्त्वसन्निति निश्चीयते । किङ्कारणं (1) तादृशः सत उपलब्धिलक्षणप्राप्तस्य सतः । उपलम्भाव्यभिचारात् । य एवायं स्वभावस्याभावनिश्चये दृश्यस्य दर्शनेत्यादिनोक्तोऽयमेव हेतुर्वेदितव्यः । कस्मिन् साध्ये ( 1 ) हेतुव्यापकयोरभावेपि साध्ये |
विरुद्धस्य चेत्यादि । 7 यस्याभावस्साध्यस्तेन यो विरुद्धस्तस्योपलब्धौ च 137b स्यादसत्तायाः प्रतिषेध्याभावस्य निश्चयः । किङ्कारणम् ( 1 ) विरुद्धस्य भावस्य भावे सत्तायान्तद्भावबाधनात् । तस्य निषेध्याभिमतस्य सत्ताबाधनात् ।
यो हीत्यादि विवरणं । कस्मान्नावतिष्ठत इत्याह । तदित्यादि । तयोर्विरुद्धयोर्ये उपादाने तयोरन्योन्यं परस्परं यद् वैगुण्यन्तस्याश्रयत्वेन । यथा शीतोपादानमुष्णोपादानवैगुण्यस्याश्रय इतरश्चेतरस्येत्यर्थः । तेन कारणेन विरुद्ध