Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal

View full book text
Previous | Next

Page 569
________________ (२) कुमारिलमत-निरासः ५५१ मिथ्यार्थतायास्तु पौरुषेयत्वेन व्याप्त्याऽपौरुषेयान्निवृत्तावपि न सत्यार्थत्वं प्रकारान्तरसंभवात्। द्वैराश्ये न शब्दानामेतत् स्यादेकनिवृत्तौ गत्यन्तराभावात्। ते त्वनर्थका अपि स्युरिति नेष्टसिद्धिः (1) अर्थप्रतीते नर्थका इति चेत्। नैष पुरु (ष) व्यापारः स्यात्। अर्थान्तरविकल्पवद् (1) यथाऽतदर्थत्वेपि भरतोर्वश्यादिचरितादिकमर्थमन्ये अन्यथा व्याचक्षते। तदनुसारेण च केषांचित् प्रतीतिस्तथा यमनर्थकेष्वर्थविकल्पः पुरुषकृतः स्यात्। न शब्दस्वभावकृतः। पुरुषोपदेशापेक्षणाच्चान्तरवदेव (1) न हि प्रकृ त्म्यनिवृत्तावप्यात्मनोऽसिद्धिप्रसंगः। तदिति तस्मादन्वयाऽन्वयरहिता न व्यतिरेकव्याप्तिः साध्यसाधनविपक्षयोर्न व्याप्तिरित्यर्थः । ____ अभ्युपगम्यापीति तु ब्रूमः । भवतु नामानन्वया विपर्ययव्याप्तिः। जीवच्छरीराच्च नैरात्म्यनिवृत्तौ सात्मकत्वं जीवच्छरीरस्य प्रकारान्तराभावात् । सत्यार्थतासाधने त्वकृतके हेतावयम्प्रकारो न सम्भवतीत्याह। मिथ्यार्थताया इत्यादि। मिथ्यार्थतायास्तु साध्यविपक्षभूतायाः पौरुषेयत्वेन व्याप्त्या हेतुभूतया शब्दादपौरुषेयानिवृत्तावपि न सत्यार्थत्वमकृतकस्य सिध्येत्। किं कारणं (1) सत्यार्थत्वव्यतिरेकेणानर्थक्यस्य प्रकारान्तरस्य सम्भवात्। सत्यार्थत्वमिथ्यार्थ- 194b त्वे न द्वैराश्ये तु शब्दानामेतत् स्यात् । मिथ्यार्थत्वनिवृत्तौ सत्यार्थत्वं स्यात् । किं कारणम् (1) एकनिवृत्तौ मिथ्यार्थतानिवृत्तौ सत्यार्थताव्यतिरेकेण गत्यन्तराभावात । द्वैराश्यमेव तु नास्ति गत्यन्तरसम्भवाद् (1) अतस्ते शब्दा अनर्था अपि स्युरिति नेष्टसिद्धिर्न सत्यार्थतासिद्धिः। शब्देभ्योर्थप्रतीतेः कारणान्नानर्थका इति चेत् । नायं स्वाभाविकोर्थप्रत्ययः किन्त्वेष पुरुषव्यापारः स्यात् । संकेतः पुरुषव्यापारस्तत्फलत्वात्पुरुषव्यापार इत्यभेदेनोक्तः पुरुषव्यापारात् स्यादित्यर्थः । किम्वत् । प्रसिद्धादर्थादर्थान्तरविकल्पवत् । एतदेव व्याचष्टे । यथेत्यादि। जैमिनी यै रिष्टनार्थेन भ र तोर्वश्या दिचरितादिकस्यातदर्थत्वेपि तदभरतचरितमर्वशीचरितं। आदिशब्दादन्यस्यापि पूरू र व श्चरितादेर्ग्रहणं। द्वितीयेनादिग्रहणे न भरतादीनां चरितादन्यदप्यवस्थाविशेषादिकमर्थमन्ये मी मां स का लोकप्रसिद्धादर्थादन्यथा व्याचक्षते । भरतो यूपः । उर्वर्शी पात्री। अरणिर्वेत्यादिना । - व्याख्यातृविकल्पिताद् अर्थप्रतीतिर्न भवत्येवेति चेद् (1) आह। तदनुसारेणेत्यादि । व्याख्यातृभिर्विकल्पितार्थानुसारेण । केषांचिच्छ्रोतृणां प्रतीतिर्भवत्येव (1) तथेति भरतादिशब्दव्याख्यावत् । स्वभावादनर्थकेष्वपि वेदवाक्येष्वर्थविकल्पः पुरुषकृतः स्यान्न शब्दस्वभावकृतः। किं कारणं (1) वैदिके

Loading...

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642