Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal
View full book text
________________
(२) कुमारिलमत-निरासः किं च । क्रमस्यार्थान्तरत्वेऽनन्तरत्वे वा वर्णात्मनस्तत्क्रमात्मनो वा मन्त्रस्यार्थहेतोरकृतकत्वान्नि त्यस्य नित्यं सन्निधानमिति ॥ ,
नित्यन्तदर्थसिद्धिः स्यात् । यतो हि भावशक्तेः फलोत्पत्तिः साऽविकलेति न फलवैकल्यं स्यात् (1)
न हि कारणसाकल्ये कार्ये वैकल्यं युक्तं। तस्याकारणत्वप्रसंगात्। न केवलात् मंत्रप्रयोगाविष्टसिद्धिस्तस्य विधानापेक्षत्वादिति चेत् (1)
असामर्थ्यमपेक्षणे ॥२९६॥ यदि हि मन्त्रादन्यतो वा कथंचित क्वचित् स्वभावातिशयमासादयेयः। स तत्र समर्थोपेक्षः स्यात् (1) न च नित्येष्वेतवस्तीत्युक्तं। तत्किमय (म) समर्थो पेक्ष्यत इत्यनपेक्षाः सदा कुर्युः। न वा कदाचिदनतिशयात् ।
विधेरनुष्ठानाद् देवताया असन्निधेर्नार्थानों ।
किंचेत्यादिना दोषान्तरमाह। निवारितं क्रमस्यार्थान्तरत्वं । भवतु वा वर्णेभ्यः क्रमस्यार्थान्तरत्वमनर्थान्तरत्वम्वा । तत्रानर्थान्तरत्वे क्रमस्य वर्णात्मा वर्णस्वभाव एव मन्त्रः। अर्थान्तरत्वे तु तत्क्रमात्मा। वर्णक्रमात्मा। तस्य वर्णात्मनस्तत्क्रमात्मनो वा मन्त्रस्य कीदृशस्यार्थहेतोः पुरुषार्थकारणस्य हेतुभिरकृतत्वान्नित्यस्य नित्यं सन्निधानमिति कृत्वा नित्यन्तदर्थसिद्धिः स्यात्। तेभ्यो मन्त्रेभ्यः पुरुषार्थस्य निष्पत्तिः स्यात् । किङ्कारणं (1) यतो यस्या हि भावशक्तेमन्त्रशक्तेः सकाशात् मन्त्रसाध्यस्य फलस्योत्पत्तिः सा भावशक्तिरविकलेति न फलवैकल्यं स्यात् । यस्मान्न हि कारणस्य साकल्ये सति कार्यस्य वैकल्यमसत्त्वं युक्तं। किं कारणं (1) तस्याविकलस्य कारणस्य कार्यमकुर्वतो कारणत्वप्रसङ्गात्। नित्यत्वेपि मन्त्राणां न केवलान्मन्त्रप्रयोगादिति मन्त्रसम्बन्धादिष्टसिद्धिः। किङ्कारणं (1) तस्य मन्त्रस्य विधानापेक्षत्वादिति चेत् । तदयुक्तं यस्मान्मन्त्रस्य विधानापेक्षत्वेऽभ्युपगम्यमाने तस्यापेक्षणीयस्य विधानादेमन्त्रं प्रत्यसामर्थ्यमनाधेयातिशयत्वान्मन्त्रस्य । . तद्व्याचष्टे। यदि होत्यादि। विधानादिभि[मन्त्र कल्पो'] विधिस्तस्मादन्यतो वेति कुतश्चित्सहकारिणः स्थानविशेषादेस्सकाशात् कञ्चित् स्वभावातिशयमासादयेयुर्लभेरन् । तदा सहकारी तत्रोत्पाद्ये मन्त्रस्य स्वभावातिशये 196a समर्थोपेक्ष्यः स्यात्। न च नित्येष्वेतदतिशयोत्पादनमस्तीत्युक्तं प्राक् । तत्किमयं सहकार्यतिशयोत्पादनं प्रत्यसमर्थो मन्त्रैरपेक्ष्यत इति कृत्वानपेक्षा मन्त्राः सदा कायं कुर्यः। यदि कारकस्वभावा (:1) नो चेन्न वा कदाचित् कार्य कुर्युरनति
1 In the margin.

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642