Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal

View full book text
Previous | Next

Page 544
________________ ५२६ प्रमाणवात्तिकस्ववृत्तिटीका (११२८१) भावोऽवश्यं भवन्तमपेक्षते (1) स च स्वभाव एव। नि(:)स्वभावस्य क्वचिद् व्यापारे समावेसा (? शा) भावाद् (1) व्यापार इति हि तथाभूतस्वभावोत्पत्तिः (1) सा निःस्वभावस्य कथं स्यात्। कथमिदानीं भवत्यभावः शशविषाणमित्यादिव्यवहारः। न वै शशविषाणं किंचिद् भवतीत्युच्यते। अपि त्वेवमस्य न भवतीति भावप्रतिषेध एव क्रियते। __ अपि च व्यवहार एतदेवं व्यापारवदिव समारोप्यादर्शयन्ति प्रकरणेन केन चित। न त तत्तथा (1) सर्वार्थनि (? विवेचनं हि तत्र तत्त्वमन्यत्त्वं न वस्तुनो भवने एष तत्त्वान्यत्त्वविकल्पः स्यात्। किं कारणम् (।) भवनस्य विधेवस्त्वनुरोधतः। नन्वतिशयोत्पत्तावपि स एव तस्यातिशय उत्पन्न इति कथं नष्टो नाम (1) तेन नायं तदवस्थो नष्टो नाम। येन स्वयं न भवति। तेन नष्टो नार्थान्तरोत्पादादित्युक्तं। न ह्यतिशयोत्पत्त्या स्वयं न भूतो नाम (1) अभावस्य सर्वातिशयोपाख्या निवृत्त्या सर्वभावधर्मविवेकलक्षणत्वात्। भावस्य चोत्पत्तिसमावेशलक्षणत्वात्। भाव इत्यादिना व्याचष्टे। भावो भवनमुत्पाद इति यावत् । सोवश्यम्भवन्तमपेक्षते। भवितारमपेक्षते (1) भवितारमन्तरेण भवनस्याभावात्। स च भाव: व्यापारे स्वभाव एव वस्त्वेव। किं कारणं (1) निःस्वभावस्य क्वचिद् भवतीत्यादिके समावेशाभावात्। सम्बन्धाभावात् । न च व्यापारो नामार्थान्तरं। किन्तु व्यापार इति हि यथाभूतस्वभावोत्पत्तिविशिष्टस्वभावोत्पत्तिः (1) सा चोत्पत्तिनिःस्वभावस्य नाशस्य कथं स्यात् । __ यदि निःस्वभावस्य नास्ति व्यापारसमावेशः कथमिदानीम्भवत्यभावः शशविषाणमित्यादिव्यवहारः श शविषाणमभावो भवतीति भवनलक्षणेन व्यापारेण व्यवहार इत्यर्थः । आदिशब्दाद् वन्ध्यासुतोऽभावो भवतीति परिग्रहः । नेत्यादिना परिहरति। न वै शशविषाणं किंचिदभावोन्यद्वा भवतीति विधिनोच्यते। अपि त्वेवमिति शशविषाणमभावो भवतीत्यनेन वाक्येनास्येति शशविषाणस्याभावो भवति (1) भावो न भवतीति भावप्रतिषेध एव क्रियते। अपि च व्यवहारः पुरुषाः। एतच्छशविषाणादिकमेवमभावो भवतीति व्यापारवदिव समारोप्यादर्शयन्ति । केनचित् प्रकरणेन । किं शशविषाणादिकमभावो भवति न भवतीति प्रस्तावसमाश्रयेण। न तु तच्छशविषाणादिकं व्यवहारमात्रेण तथा व्यापारयुक्तम्भवति। यस्मात् सर्वार्थविवेचनं सर्वार्थस्वभाव विरहस्तत्र शशविषाणादौ तत्त्वं । न त्वसतः कस्यचिद् भवनादेः समावेशः ।।

Loading...

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642