Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal

View full book text
Previous | Next

Page 538
________________ प्रमाणवार्त्तिकस्ववृत्तिटीका (१।२७८ ) कथमसन् विनाशो भावं नाशयेद् (1) अतो विनाशी भाव: स्यादित्यप्यप्रसंग एव (1) विनाशाद् भावनाशानभ्युपगमात् । यो हि विनाश इति किंचिन्नेत्याह । स कथं ततो भावनाशमिच्छेत् । ५२० कथमिदानीमसति विनाशे भावो नष्टो नाम । न ह्यस द्विनाशास्तामपेक्षन्ते प्रत्युत्पन्नावस्थायां (1) न हि यो येन ( 1 ) तद्वान् स तेन तथा व्यपदिश्यते 37b प्रतीयते वा ( 1 ) यथाश्वो विशा (? षा) णेन । न वै विनाशो नास्त्येव । स तु नास्ति यो भावस्य भवति । भाव एव तु क्षणस्थितिधर्मा विनाशः । तमस्य स्वभावं उत्तरकालं विभावयन्तो विनाशोऽस्य भूत इति यथाप्रतीति व्यपदिशन्तीत्युक्तं । न हि भावस्य किञ्चित् कदाचिद् भवति ( 1 ) स एव केवलं सत्त्वे सत्यभावनाशित्वप्रसंग ः । भावस्य नाशित्वं न स्यादित्ययमपि प्रसङ्गो न युज्यते । यस्माद् भावस्य नाशेनार्थान्तरेण नास्माभिविनाशनमिष्यते । कथमित्यादिना व्याचष्टे । कथमसन् विनाशो भावं नाशयेदसतो व्यापारायोगात् । अतः कारणादविनाशी भावः स्यादित्यप्रसंग एव । किं कारणम् ( 1 ) विनाशादर्थान्तरभूताद् भावस्य नाशानभ्युपगमात् । यो हीत्यादिनैतदेव समर्थयते । यो हि वादी विनाश इति किंचितेत्याह । स कथन्ततो निःस्वभावान्नाशाद् भावस्य नाशमिच्छेत् ( 1 ) नेच्छेत् । कथमित्यादि परः । असत्यविद्यमाने विनाशे कथम्भावो नष्टो नाम । नैव विनष्टः स्यात् । तथा हि प्रत्युत्पन्नावस्थायामसद्विनाशाः । असद्विनाशो येषामिति विग्रहः । ते न हि नष्टा गण्यन्ते । यदा च भावस्य नाशो नास्ति तदा कथन्तेन स व्यपदिश्यते नाशवानिति । न हि यो येन स्वभावेनातद्वान् असम्बन्धवान् । स पदार्थस्तेनासम्बन्धिना तथा व्यपदिश्यते । तद्वानिति व्यपदिश्यते शब्देन । प्रतीयते वा ज्ञानेन । नेत्यादिना परिहरति । न वै भावस्य नाशो नास्त्येवापि त्वस्त्येव नाशः । कथन्तर्हि नास्तीत्युच्यते । स तु नास्ति नाशो यो भावस्य भवति । यदि विनाशो न भवति कथन्तर्हि विनाशोस्तीत्युच्यत इति ( 1 ) आह । भाव एव तु क्षणस्थितिधर्मा । एकक्षणस्थायी नाशः । यदि भाव एव नाशः कथन्तर्हि भावस्य नाशो भूत इति लोको व्यपदिशतीति (1) अत आह । तमस्येत्यादि । अस्य भावस्य तमेकक्षणस्थायिस्वभावं सदृशापरोत्पत्तिविप्रलम्भादुपलक्षितं । उत्तरकालं सन्तानोच्छित्तावनुपलम्भेनास्थितिप्रतिपत्त्या । विभावयन्तो निश्चिन्वन्तः । विनाशोस्य भावस्य भूत इति यथा प्रतीति व्यपदिशन्ति व्यवहारिणः पुरुषा इत्युक्तं प्राक् ।

Loading...

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642