Book Title: Praman Varttikam
Author(s): Rahul Sankrutyayan
Publisher: Kitab Mahal

View full book text
Previous | Next

Page 521
________________ ७. अपौरुषेय चिन्ता अभावे करणग्राम सामर्थ्य किं न तद्भवेत् । (२६७) न ह्यावरणस्याकिंचित्कराणि करणानि समर्थानि नाम । विगमश्चाभावो न चाभावः कार्यं इति निवेदितमेतत् । नापि शब्दस्य नित्यस्य किंचिदावरण (म) - सामर्थ्यादित्युक्तं । तस्मान्नावरणे करणोपक्षेपः (1) नाप्येषामसामथ्यं तद्वयापाराभावे शब्दानुपलब्धेः ( 1 ) अतो युक्तमेते यच्छब्दान् कुर्युः ( 1 ) अन्यथा । शब्दाविशेषादन्येषामपि व्यक्ति: प्रसज्यत ।। तथाभ्युपगमे सर्व्वकारणानां निरर्थता । (२६८) ५०३ सा व्यक्तिः कथं क्रियते । यस्मादावरणविगमोऽभावस्तस्मिन्नभावे कथंचिदप्य कार्ये करणग्रामस्य करणसङ्घातस्य सामथ्यं किन्न तद् भवेत् ( 1 ) नैवेति यावत् । न हीत्यादिना व्याचष्टे । एतदाह ( 1 ) आवरणस्वरूपे निष्पन्नेऽकिंचित्कराण्येव करणानि न हि समर्थानि भवन्ति । आवरणविगमेपि न तेषां सामर्थ्यं । यस्माद् विगमश्चाभावो न चाभावः कार्य इति निवेदितमेतत् सामर्थ्यचिन्तायां । न शब्दस्य अभ्युपगम्य चैतदुक्तं । तदेव नास्तीत्याह । नापीत्यादि । नित्यस्यानाधेयातिशयत्वात् किञ्चिदावरणमस्ति येनावरणविगमो व्यक्तिः स्यात् । किं कारणं ( 1 ) तस्यावरणस्य नित्यवस्तुन्यसामर्थ्यादित्यप्युक्तं । यत एवन्तस्मान्नावरणे करणानामुपक्षेपः । करणान्यावरणविगमं शब्दस्य कुर्वन्तीत्येतन्नोपन्यसनीयमित्यर्थः । नाप्येवं कारणानां शब्दप्रत्यसामर्थ्यमेव । किं कारणं ( 1 ) तद्व्यापाराभावे करणानां व्यापाराभावे शब्दानुपलब्ध: (1) अतो युक्तमेते करणव्यापारा यच्छब्दान् कुर्युः ( 1 ) अन्यथा यदि करणानि न कारकाणि किन्तु व्यञ्जकान्येव । तदा शब्दाविशेषादन्येषामपि घटादीनां व्यक्तिः कुलालादिभ्यः प्रसज्यते । अथ पुनस्तेपि घटादयो व्यज्यन्त एव कुलालादिभिरितीष्यते । तदा तथाभ्युपगमे सर्वकारणानान्निरर्थता । तथा हि (i) व्यङ्ग्ये वस्तुन्यतिशयस्य कारको वाऽवरणाभावस्य कारको वा ज्ञानस्य वा कारको व्यञ्जकः स्यात् । अतिशयादेर्व्यक्तिस्वरूपस्य चाकार्यत्वात् । सर्वेषां व्यक्तिकारकाणां स्वरूपकारकाणां च निरर्थता । यदीत्यादिना व्याख्यानं । यदि शब्दस्य करणानि व्यञ्जकानि कीदृशानि

Loading...

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642