Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri

View full book text
Previous | Next

Page 155
________________ १३७ चतुर्थोऽङ्कः । द्वयाम्भोजराजन्नखद्योतकिमीरितस्वर्णपीठ ! स्फुरद् द्वैतविभ्रान्तिसन्तानसन्तापसन्तप्तवन्दारुसंसारनिद्रापहारैकदक्ष मामण्डलोद्धारसंहार संघट्ट संघृष्टदंष्ट्रा ग्रकोटिरपुरच्चैलचक्र! क्रमाक्रान्तलोकत्रय ! प्रबलभुजबलोद्धृत गोवर्धनच्छत्र निर्वारिता ! क्ष राजन् दीव्यन्न खानां द्योतो दीप्तिस्तया किमरितं कल्माषितं स्वर्णमयपादपीठं यस्य भगवतः सोऽयं तथोक्तः । अथवा किमीरितमित्यस्यान्योऽर्थः । श्रीमन्नारायणपादाम्बुरुहसेवामहे। त्सवसमुत्सुकतयाविच्छिन्न संततधारं सर्वतः समागत्य भक्त्यतिशयेन पक्तिशः प्रणतविबुधसभाभूषितभूषाभास्वन्मणिप्रभापटलव्यतिषङ्गदोषेण निसर्गभास्वत् स्वर्णमयपादपीठं किमरितं किणी - कृतमिव यस्य स तथेति । स्फुरच्च तद् द्वैतं चेति समासः । तत्र स्फुरणं नाम स्वप्नप्रपञ्चप्रतिभासवदेव केवलं द्वैतभानं, न त्वंव द्वैतमिति निरूपणक्षममित्यर्थः । द्वैत (स्य ) विभ्रान्तिः परिभ्रमणम् अनादिभवपरम्परावासनाप्रवृत्तजननमरणादिभिः सुरनरस्करा दियोनिभेदेषु अनिशं बम्भ्रम्यमाणत्वम् एवंविधविभ्रान्तेः सन्तानेन पौनःपुन्येन वर्तमानगर्भवासादिदुःखनिवहेन सम्यकतापेन । सम्यक्ता नाम कदाचिदपि सुखलेश संस्पर्शः । तेन सन्ततानां वन्दारूणां “चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ! | आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ! || " इत्यादिवचनादनेकदुःखव्रातसन्तापेन भगवन्नारायणपादारविन्दवन्दनशीलानां संसारिणां संसार एव निद्रावद विशेषविज्ञानविरोधित्वाद् निद्रा तस्या अपहारो निरासः तस्मिन्नेकः प्रधानो दक्षः कुशलः यः स भगवांस्तथोक्तः । क्षमा पृथिवी तस्या मण्डलस्योद्धरण, पुरा खलु हिरण्याक्षेण पातालनिवेशितपृथिवीमण्डलस्योद्धरणे संहारः सम्यगाहरणं दंष्ट्राग्रेण समुत्खायाकृध्योपरि यथापुरं संस्थापनम् तदानीं सम्यग् घट्टनः सङ्घर्षः (तेन) सम्यग् घृष्टदंष्ट्रायाः अग्रकोठ्यां स्फुरत् शोभमानं शैलानां चक्रं निवहो यस्य भग वतः स तथोक्तः । भूरादिक्रमेणाक्रान्तम् उल्लङ्घितं लोकानां त्रयं येन स १. 'यप्र' घ. पाठः २. 'नैवमि' ग. पाठः. T |

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249