Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri

View full book text
Previous | Next

Page 200
________________ १८२ प्रबोधचन्द्रोदये सव्वाने (ततः प्रविशति पुरुषः।) पुरुषः-(विचिन्त्य सहर्षम्) अहो माहात्म्यं देव्या विष्णुभक्तेः । यत्प्रसादान्मया, तीर्णाः क्लेशमहोर्मयः परिहता भीमा ममत्वभ्रमाः शान्ता मित्रकलत्रबन्धुमकरग्राहग्रहग्रन्थयः । क्रोधौर्वामिरपाकृतो विघटितास्तृष्णालताविस्तराः पारेतीरमवाप्तकल्पमधुना संसारवारान्निधेः ।। ८ ॥ (ततः प्रविशत्युपनिषच्छान्तिश्च ।) उपनिषत् - सखि! कथं तथा निरनुकोशस्य स्वामिनो मुखमालोकयिष्यामि, येनाहमितरजनयोषेत्र सुचिरमेकाकिनी परित्यक्ता । शान्तिः -देवि ! कथं तथाविधविपत्पतितो देव उपा. लम्यते। उपनिषत् - सखि! न दृष्टा त्वया मे तादृशी अवस्था, येनैवं ब्रवीषि । शृणुबाह्वोर्भमा दलितमणयः श्रेणयः कङ्कणानां चूडारत्नग्रहनिकृतिभिर्दूषितः केशपाशः । इत्याह-ततः प्रविशति पुरुष इति ।। और्वाग्निबंडवामुखाग्निः। अवाप्तकल्पमिति । विवेकेन सहोपनिपदागमनमेव केवलमपेक्षितमित्यर्थः ॥ ८ ॥ निरनुक्रोशस्य अनुकम्पारहितस्य । इतरजनयोषा असंस्कृतजनवनिता। चूडारत्नं शिरोभूषणमाणः । स्वयंप्रकाशसान्द्रानन्दपरमार्थलक्षणं रलं मया सततलालितं मदनमित्यर्थः । तस्य ग्रहणं स्वमतानुसारेणान्य

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249