Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri
View full book text
________________
२०.
पोजाः। यस्मिन्नभ्युदिते वितर्कपदवीं नैवं समारोहति त्रैलोक्यं सहजप्रकाशदलितं सोऽहं प्रबोधोदयः॥१९॥
(परिक्रम्य) एष पुरुषः । यावदुपसमि । (उपमुत्य) भगवन् ! प्रबोधचन्द्रोहमभिवादये।
पुरुषः- (साहादस्) एहि पुत्र! परिष्वजस्व माम्। प्रबोधचन्द्रः- (तथा करोति ।)
पुरुषः- (आलिङ्गय सानन्दम्) अहो! विघटिततिमिरपटलं संजातम् । तथाहिमोहान्धकारमवधूय विकल्पनिद्रा
मुन्मथ्य कोऽप्यजनि बोधतुषाररश्मिः।
किं व्याप्तं किं विषयीकृतम् । किमपोहितं किमपहस्तितम् । किमुदितं किमुत्पन्नम् । किं वा समुत्सारितं किं वा विनाशितम् । स्यूतं किं नु अनुगतं किं नु । विलायितं किं विलयं प्राप्तं किम् । किमिदं परिदृश्यमानं कीदृक्षम् । किंचित् किमस्ति । न वा किंचन किं वा नास्ति किञ्चिदपि । इत्येवमादि विचिकित्सासरणिं न प्राप्नोति । त्रैलोक्यं प्रपन्चः । यस्मिन् मयि सम्यग्ज्ञाने समुत्पन्ने सोऽहं फलरूपः प्रबोधचन्द्र इत्यर्थः ॥ २९ ॥
अहो विघटिततिमिरपटलमिति । विष्णुभक्तिप्रसादाद निवृत्ताशेषानर्थनिरतिशयानन्दं ब्रह्मैवाहमासमित्यर्थः।
तदेव दर्शयति-मोहान्धकारमित्यादिना । मोह एवान्मकारो मोहान्धकारः, तम् । अवधूय अपहाय । विकल्पः संशयः । वस्त्वनिर्णयरूपत्वान्निद्रावन्निद्रा ताम् । उन्मथ्य उन्मूल्य ! कोऽपीलमामनसमोचरः । बजनि सन्जातः । बोधत्तुषारविः सम्यस्नान हिम
.. 'द्रोदयः ', .. 'खनिर्णयाम' ज. प. पाठ:.

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249