Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri
View full book text
________________
षष्ठोऽङ्कः ।
२०५
सत्त्वा विद्या नाम कन्या त्वदुदरे वर्तते प्रबोधचन्द्रश्च । तत्र विद्यां सङ्कर्षणविद्यया मनसि सङ्क्रामयिष्यसि । प्रबोधचन्द्रं पुरुषे समर्प्य वत्सविवेकेन सह मत्समीपमागमिष्यसीति । यदादिशति महादेवी । ( इति विवेकमादाय
उपनिषत् निष्कान्ता ।)
Chang
निदिध्यासनम् – (पुरुषं प्रविशति ।)
पुरुषः
(ध्यानं नाटयति
1)
(नेपथ्ये)
आश्चर्यमाश्चर्यम् | उद्दामद्युतिदामभिस्तडिदिव प्रद्योतयन्ती दिशः
प्रत्यग्रस्फुटदुत्कटास्थि मनसो निर्भिद्य वक्षःस्थलम् ।
ल्पेन । ध्यानेनेति यावत् | आपन्नसत्त्वा अन्तर्वत्नीत्यर्थः । विद्यायाः क्रूरसत्त्वता नाम घुमणिद्युतिवत् स्वोदयसमसमयमेव ध्वान्ततत्कार्यस्य निर्दयमेव घस्मरत्वम् । एवं स्थिते शक्तितात्पर्यपर्यालोचनालक्षणयोनिद्वारा सङ्कल्पलक्षणाकर्षणविद्यया सा कन्या मनसि सम्पादनीयेत्याह - सङ्कर्षणविद्ययेत्यादिना । तत्र विद्याया मनसि सङ्क्रमणं नाम वाक्यभवणाद् ब्रह्माकारबोधे बुद्धिवृत्त्युत्पत्तिरुध्यते ॥
पदादिशति महादेवीति । परमेश्वर्या महादेव्या यत् सङ्गल्पितं तत् तथा कृत्वेत्यर्थः ॥
निदिध्यासनं पुरुषं प्रविशतीति । एवमाचार्यसमीपे स्थित्वा वेदान्तमहावाक्यात् श्रुतं तदनुकूलयुक्तिभिः सम्यङ्मतं च वस्तु एवमेव नान्यथेति निर्णयेर्ने उक्तः पुरुष इत्यर्थः ॥
पुरुषस्य ध्याननटनं नाम, विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाहकरणं हि ध्यानं, तद् भावयतीत्यर्थः ।
५
-
आश्चर्यमिति ! अहो विष्णुभक्तेः प्रसादविलसितमित्यर्थः । निदिध्यासनं नाटयतीत्युक्तं, तदेव दर्शयति – उद्दामेत्यादिना । २. 'द्धिप्रत्रु', ३. 'पे वे' ग. पाठः. ४ 'र्थः । तदे' ग. पाठ :.
BB
१. 'धेद्धबु' क. ग. पाठः. 'alf: 9' 5. 3. 418:.

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249