Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri
View full book text
________________
२०८
प्रबोधचन्द्रोदये सव्यात्ये श्रद्धाविवेकमतिशान्तियमादि येन विष्ण्वात्मकं स्फुरति विष्णुरहं स एषः ॥ ३० ॥
सर्वथा कृतकृत्योऽस्मि भगवत्या विष्णुभक्तेः प्रसादात् । सोऽहंसङ्गेन केनचिदुपेत्य कमप्यपृच्छन्
गच्छन्नतर्कितफलं विदिशं दिशं वा । शान्तो व्यपेतभयशोककषायमोहः सायं गृहे मुनिरहं भवितास्मि सद्यः ॥११॥
(ततः प्रविशति विष्णुभक्तिः ।) विष्णुभक्तिः-(सहर्षमुपसृत्य) चिरेण खल्वस्माकं सम्पन्नाः सर्वे मनोरथाः । येन प्रशान्तारातिं भवन्तमवलोकयामि । करः । येन प्रबोधचन्द्रेण । श्रद्धाविवेकमतिशान्तियमादिप्रपञ्चः, सर्व विष्ण्वात्मकं स्फुरति प्रतीयते । सर्व विष्णुरित्यवगतम् । स परमात्मा एष अपरोक्षः। स एषोऽहमिति फलस्थितिरित्यर्थः ।। ३० ॥
एवमुत्पन्चसम्यगदर्शनस्याखिलकर्मदाहात् सद्यः शरीरपातप्रसङ्गं परिहरबारब्धकर्मवेगबलेन लोकसङ्ग्रहार्थं कञ्चित्कालमवस्थानं दर्शयन् जीवन्मुक्तलक्षणमाह-सोऽहं सङ्गेन केनचिदित्यादिना । सङ्गेन प्रणयेन। केनचित् पुरुषेण सहोपेत्य कमप्यर्थमपृच्छन् अविचारयन् । गच्छन् प्रयास्यन् । अतर्कितफलम् एतस्यां दिशि गते एतत् फलं भवतीत्यविचिन्तितफलम् । विदिशम् उपदिशं दिशं वा यास्यामीत्यर्थः । शान्तः सर्वस्मादुपरतः। व्यपेतो व्यपगतो द्वितीयनिमित्तं भयं तन्निमित्तः शोकश्च कषायो रागो मोहश्च यस्य मम सोऽहं व्यपेतभयशोककषायमोहः । महाप्रस्थानं परिहरति-सायं गृह इति । परिपूर्णतत्त्वस्य मननान्मुनिर्भवितास्मि । आशरीरपातमेवं क्रियत इत्यर्थः ॥ ३१॥
एवमुक्तविधजीवन्मुक्तमभिलक्ष्य सम्यग्दर्शनलक्षणा विष्णुभक्तिः प्रवर्तत इत्याह - ततः प्रविशति विष्णुभक्तिरित्यादिना । मनोस्थपूर्तिमेव दर्शयति-येन प्रशान्तारातिमित्यादिना । येन यस्मात्
1. 'लप्राप्तिस्थि' म. ग. प. पार:. १. 'गदान' न. पाठः,

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249