Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri

View full book text
Previous | Next

Page 221
________________ षष्ठोऽधः। २०३ अवच्छिन्नस्य भिन्नस्य जरामरणधर्मिणः । मम ब्रवीति देवीयं नित्यानन्दचिदात्मताम् ॥ २६ ॥ विवेकः- पदार्थापरिज्ञानादयं वाक्यार्थानवबोधस्ते । पुरुषः-तदवबोधाय भगवानुपायमाज्ञापयतु । विवेकः-अयमुच्यतेएषोऽस्मीति विविच्य नेति पदतश्चित्तेन सार्धं कृते तत्त्वानां विलये चिदात्मनि परिज्ञाते त्वमर्थे पुनः । श्रुत्वा तत्त्वमसीति बाधितभवध्वान्तं सदात्मप्रभं शान्तं ज्योतिरनन्तमन्तरुदितानन्दं समुद्योतते ॥२७॥ उपनिषदुक्तार्थासम्प्रतिपत्तिरेव ने केवलं, किन्तु विपरीतार्थप्रतिपत्तिरेप्यस्तीत्याह- अवच्छिन्नस्येत्यादिना ॥ २६ ॥ __ पदार्था(परि)ज्ञानादिति हेतुः पदार्थबोधो हि वाक्यार्थावगतेरिति न्यायात् पदार्थविवेकः कर्तव्य इत्यर्थः ॥ एषोऽस्मीति | चिदात्मनि त्वमर्थे परिज्ञाते सतीत्यन्वयः । तत्त्वानां शरीरेन्द्रियलक्षणानाम् । विविच्य विचारेण परितः प्रवृत्तेन 'नेति नेती'ति देहमारभ्याहङ्कारपर्यन्तस्य त्वंपदवाच्यस्यानात्मतया निराकरणेन त्वंपदलक्ष्यप्रत्यग्वस्तुन्यैवगते सतीत्यर्थः । पुनःशब्दात् तत्पदवाच्ये च जगत्कारणे सर्वज्ञत्वपारोक्ष्यादिपरिहारेण केवलचिद्रूपेऽवगते सतीत्यर्थः । ततः किमिति, तदाह-श्रुत्वा तत्त्वमसीत्यादिना । कृतपदार्थविवेकस्य खर पुरुषस्य परदेवतागुरुप्रसादलब्धतत्त्वमादिमहावाक्यश्रवणजनितसम्यग्ज्ञानेन बाधितभवध्वान्तं भवः संसारः, ध्वान्तमज्ञानं, कार्यकारणेप्रपञ्चलक्षणमज्ञानं बाधितं यथा भवति तथा प्रत्यगात्मानन्दाद्वितीयब्रह्मापरोक्ष्यं भव. तीत्यर्थः । उक्तं च १. 'न परं कि' ख. ग. घ. ङ. पाठ:. २. 'रस्यास्ती' ख. ग. अ. पाठः ३. 'क्षणप्र' ख. घ. पाठः. ४. 'न्युपग' ख. ग. पाठः. ५. 'णलक्षणप्रपञ्चरूपम' क. पाठः. ६. 'दब्रह्मा' घ. पाठा. BB2

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249