________________
षष्ठोऽधः।
२०३ अवच्छिन्नस्य भिन्नस्य जरामरणधर्मिणः ।
मम ब्रवीति देवीयं नित्यानन्दचिदात्मताम् ॥ २६ ॥ विवेकः- पदार्थापरिज्ञानादयं वाक्यार्थानवबोधस्ते । पुरुषः-तदवबोधाय भगवानुपायमाज्ञापयतु ।
विवेकः-अयमुच्यतेएषोऽस्मीति विविच्य नेति पदतश्चित्तेन सार्धं कृते
तत्त्वानां विलये चिदात्मनि परिज्ञाते त्वमर्थे पुनः । श्रुत्वा तत्त्वमसीति बाधितभवध्वान्तं सदात्मप्रभं शान्तं ज्योतिरनन्तमन्तरुदितानन्दं समुद्योतते ॥२७॥
उपनिषदुक्तार्थासम्प्रतिपत्तिरेव ने केवलं, किन्तु विपरीतार्थप्रतिपत्तिरेप्यस्तीत्याह- अवच्छिन्नस्येत्यादिना ॥ २६ ॥
__ पदार्था(परि)ज्ञानादिति हेतुः पदार्थबोधो हि वाक्यार्थावगतेरिति न्यायात् पदार्थविवेकः कर्तव्य इत्यर्थः ॥
एषोऽस्मीति | चिदात्मनि त्वमर्थे परिज्ञाते सतीत्यन्वयः । तत्त्वानां शरीरेन्द्रियलक्षणानाम् । विविच्य विचारेण परितः प्रवृत्तेन 'नेति नेती'ति देहमारभ्याहङ्कारपर्यन्तस्य त्वंपदवाच्यस्यानात्मतया निराकरणेन त्वंपदलक्ष्यप्रत्यग्वस्तुन्यैवगते सतीत्यर्थः । पुनःशब्दात् तत्पदवाच्ये च जगत्कारणे सर्वज्ञत्वपारोक्ष्यादिपरिहारेण केवलचिद्रूपेऽवगते सतीत्यर्थः । ततः किमिति, तदाह-श्रुत्वा तत्त्वमसीत्यादिना । कृतपदार्थविवेकस्य खर पुरुषस्य परदेवतागुरुप्रसादलब्धतत्त्वमादिमहावाक्यश्रवणजनितसम्यग्ज्ञानेन बाधितभवध्वान्तं भवः संसारः, ध्वान्तमज्ञानं, कार्यकारणेप्रपञ्चलक्षणमज्ञानं बाधितं यथा भवति तथा प्रत्यगात्मानन्दाद्वितीयब्रह्मापरोक्ष्यं भव. तीत्यर्थः । उक्तं च
१. 'न परं कि' ख. ग. घ. ङ. पाठ:. २. 'रस्यास्ती' ख. ग. अ. पाठः ३. 'क्षणप्र' ख. घ. पाठः. ४. 'न्युपग' ख. ग. पाठः. ५. 'णलक्षणप्रपञ्चरूपम' क. पाठः. ६. 'दब्रह्मा' घ. पाठा.
BB2