________________
२०१
प्रबोधचन्द्रोदये सव्याख्ये पुरुषः-(सानन्दं श्रुतमर्थं परिभावयति ।)
(ततः प्रविशति निदिध्यासनम् ।) निदिध्यासनम् - आदिष्टोऽस्मि भगवत्या विष्णुभक्त्या । यथा-निगूढमस्मदभिप्रायमुपनिषद् विवेकेन सह बोधयितव्या। त्वया च पुरुषेण वस्तव्यमिति । (विलोक्य) एषा देवी विवेकपुरुषाभ्यां सह नातिदूरे वर्तते । यावदुपसामि । (उपसृत्य उपनिषदं प्रति जनान्तिकम् ) देव्या विष्णुभक्त्या समादिष्टम् । यथा-सङ्कल्पयोनयो देवता भवन्ति । मया च समाधानेन विदितं, तथा आपन्नसत्त्वा भवतीति । तत्र च कूर
"त्वंपदार्थविवेके हि पाणावर्पितबिल्ववत् ।
वाक्यार्थो व्यज्यते चैव केवलाइंपदार्थता ॥" इति ॥ २७॥
अधुना महावाक्यश्रवणजनितसम्यग्ज्ञानमनुसन्धत्त इत्याहसानन्दमित्यादिना । श्रुतार्थपरिभावनं नामाचार्यसमीपे स्थित्वा वेदान्तवाक्यानां शक्तितात्पर्यनिरूपणम् । तदनन्तरं वस्तुनिष्ठवाक्यापेक्षितया तज्जत्वात् तल्लत्वात् तदनत्वादित्यादिकया परितः प्रवृत्तया युक्त्या श्रुताथस्य सम्भावनाभावना मननमित्यर्थः॥
अथ मननोपबृंहितवाक्यार्थविषयस्थिरीभावरूपनिदिध्यासनप्रवृत्तिमाह-ततः प्रविशति निदिध्यासनमित्यादिना ।
जनान्तिकम् एकान्तस्थलम् । "त्रिपताकं करं कृत्व यच्चान्यस्य मनोगतम् ।
कथयत्यप्रकाशं तु तज्जनान्तिकमुच्यते ॥" इति । विविक्तस्थले मामाहूयामुमर्थमुपदिष्टवती देवीत्यर्थः । किं तदिति तदाह-सङ्कल्पयोनय इत्यादिना । सङ्कल्पयोनयः सङ्कल्पसिद्धिकाः । तदिदानी किमिति चेत्, तदाह-मया चेति । समाधानेन सक्क
१. 'लानुभवादिह', २. 'र्यालोचनं तावच्छूवणं त', ३. 'नादिबुद्धिप्राप मनसः संपादयतीति । भय' क. पाठः.