________________
प्रबोधचन्द्रोदये सव्याख्ये
उपनिषत् - ( सस्मितम् ) को नामात्मानमजानन्तं प्रत्यु
त्तरं दास्यति ।
२०२
-
पुरुषः . ( सहर्षम् ) कथं ममात्मा परमेश्वरः । उपनिषत् - एवमेतत् । तथाहि -
असौ त्वदन्यो न सनातनः पुमान् भवान्न देवात् पुरुषोत्तमात् परः ।
स एव भिन्नस्तदनादिमायया
द्विधेव बिम्बं सलिले विवस्वतः ॥ २५ ॥
(विवेकं प्रति ) भगवन् ! उक्तमप्यर्थं भगवत्या
पुरुषः न सम्यगवधारयामि ।
आत्मानं सन्तं स्वयंप्रकाशसंविदानन्दरूपमीश्वरं कथं न जानासि, अहो बाहिर्मुख्यमित्यभिसन्धायाह - सस्मितमित्यादिना । उक्तं च"बोवेऽप्यनुभवो यस्य न कथञ्चन जायते ।
तं कथं बोधयेच्छास्त्रं लोष्टं नरसमाकृतिम् ॥"
इति ।
आत्मानमजानन्तमित्यनेनेश्वरस्यात्मत्वेऽभिहिते प्रत्यगात्मानन्दसप्रेमात् पृच्छति - कथं ममात्मेति ।
अधुना ते बाहिर्मुख्यमपहस्तितम् | अतः सावधानं श्रूयतामित्याह - एवमेतत् तथाहीत्यादिना । असौ त्वदन्यो नेति । असोवीश्वर एव त्वं त्वमेव चासावीश्वर इत्यन्योन्यव्यवहारेणैकत्वमेवोपदिष्टमि - त्यर्थः । ननु जीवेश्वरयोर्भेदप्रतीतेर्जीवानां च परस्परभेदात् कथमसावेवाहमित्याशङ्कयाह – स एव भिन्न इत्यादिना । बिम्बप्रतिबिम्बादिभेदवद् जीवेश्वरादिभेदभानं भ्रान्तमित्यर्थः ॥ २५ ॥
---
१. 'कू' ग. घ. पाठ:. २. 'सौ विश्व ए' ग. पाठः.