Book Title: Prabodh Chandrodayam
Author(s): Sambasiva Shastri
Publisher: Sambasiva Shastri

View full book text
Previous | Next

Page 218
________________ २०० प्रबोषचन्द्रोदये सन्याल्ये पुरुषः-साधु साधु प्रीणयति मानसं ममायं प्रज्ञावतो विमर्शः । (उपनिषदं प्रति) ततस्ततः । उपनिषत्-ततस्ताभिः सर्वाभिरेव कुडाभिरुक्तम् - अहो विश्वविलयेन मुक्तिमेषा वदन्ती नास्तिकपथं प्रस्थिता निगृह्यतामिति । ततः ससंरम्भं मां निग्रहीतुंप्रधाविताःसर्वाः। पुरुषः- (सत्रासम् ) ततस्ततः। उपनिषत्-ततोऽहं सत्वरतरं परिक्रम्य दण्डकारण्य प्रविष्टा । ततो मन्दरशैलोपकल्पितस्य मधु दनायतनस्य नातिदूरे बाह्वोर्भग्ना दलितमणयः श्रेणयः कङ्कणानां ___ चूडारत्नग्रहनिकृतिभिर्दूषितः केशपाशः । छिन्ना मुक्तावलिरपहतं त्रस्तमङ्गाद् दुकूलं भीता गीताश्रममथ गलन्नूपुराहं प्रविष्टा ॥ २४ ॥ पुरुषः- ततस्ततः। उपनिषत् - ततो देवतायतनान्निर्गत्य दण्डपाणिभिः पुरुषैरतिनिर्दयं ताड्यमानास्ता दिगन्तमतिक्रान्ताः सर्वाः । प्रज्ञावतः विवेकिन इत्यर्थः ॥ मधुसूदनायतनस्य नातिदूरे गीताश्रमं प्रविष्टाहमित्यन्वयः । तदानीं परित्रस्ताया मे शिथिलान्यङ्गानीत्याह-बाहोर्भग्ना इत्यादिना ॥ २४ ॥ ततो देवतायतनादिति । ततो मामशेषतर्कविद्यादुर्भाषितेगजेन्द्रदन्तामिहतां सल्लकीमिव वेपमानामालक्ष्यागणितकरुणाविधेयहृद येने भगवता शाङ्गपाणिना प्रेषितैर्दण्डपाणिभिः संन्यासिप्रवरैरन्यैश्च पूर्ण 1. 'नी' ग. पाठः, १. 'न श्रीकरुणाकरण भ' प. पाठ:.

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249