________________
२००
प्रबोषचन्द्रोदये सन्याल्ये पुरुषः-साधु साधु प्रीणयति मानसं ममायं प्रज्ञावतो विमर्शः । (उपनिषदं प्रति) ततस्ततः ।
उपनिषत्-ततस्ताभिः सर्वाभिरेव कुडाभिरुक्तम् - अहो विश्वविलयेन मुक्तिमेषा वदन्ती नास्तिकपथं प्रस्थिता निगृह्यतामिति । ततः ससंरम्भं मां निग्रहीतुंप्रधाविताःसर्वाः।
पुरुषः- (सत्रासम् ) ततस्ततः।
उपनिषत्-ततोऽहं सत्वरतरं परिक्रम्य दण्डकारण्य प्रविष्टा । ततो मन्दरशैलोपकल्पितस्य मधु दनायतनस्य नातिदूरे
बाह्वोर्भग्ना दलितमणयः श्रेणयः कङ्कणानां ___ चूडारत्नग्रहनिकृतिभिर्दूषितः केशपाशः । छिन्ना मुक्तावलिरपहतं त्रस्तमङ्गाद् दुकूलं
भीता गीताश्रममथ गलन्नूपुराहं प्रविष्टा ॥ २४ ॥ पुरुषः- ततस्ततः।
उपनिषत् - ततो देवतायतनान्निर्गत्य दण्डपाणिभिः पुरुषैरतिनिर्दयं ताड्यमानास्ता दिगन्तमतिक्रान्ताः सर्वाः ।
प्रज्ञावतः विवेकिन इत्यर्थः ॥ मधुसूदनायतनस्य नातिदूरे गीताश्रमं प्रविष्टाहमित्यन्वयः ।
तदानीं परित्रस्ताया मे शिथिलान्यङ्गानीत्याह-बाहोर्भग्ना इत्यादिना ॥ २४ ॥
ततो देवतायतनादिति । ततो मामशेषतर्कविद्यादुर्भाषितेगजेन्द्रदन्तामिहतां सल्लकीमिव वेपमानामालक्ष्यागणितकरुणाविधेयहृद येने भगवता शाङ्गपाणिना प्रेषितैर्दण्डपाणिभिः संन्यासिप्रवरैरन्यैश्च पूर्ण
1. 'नी' ग. पाठः, १. 'न श्रीकरुणाकरण भ' प. पाठ:.