________________
पठोशः। शुक्तौ रूप्यमिव सजीव भुजगः स्वात्मावबोधे हरा
वज्ञाते प्रभवत्यथास्तमयते तत्त्वावबोधोदयात् ।। १२ । विकाराशङ्का तु मुग्धवधूनां विलसितमेव । तथाहिशान्तं ज्योतिः कथमनुदितानस्तनित्यप्रकाशं
विश्वोत्पत्तौ व्रजति विकृति निष्कलं निर्मलं च । शश्वन्नीलोत्पलदलरुचामम्बुवाहावलीनां प्रादुर्भावे भवति वियतः कीदृशो वा विकारः ॥ २३ ॥
मत्त्वाद् विनाशित्वाच्च प्रतिबिम्बवद् गन्धर्वनगरवत् स्वप्नप्रपन्चवदिन्द्रजालवत् शुक्तिरूप्यवत् सक्सीदिवचेति । ननु विभक्तत्वनाखिलस्य कार्यत्वे किं पुनस्तर्हि कादाचित्कस्यास्य कारणमित्याकाङ्क्षायामाह-शुक्तौ रूप्यमिवेत्यादिना । तत्त्वमादिमहावाक्यजनितबुद्धिवृत्तिफलकारूढचैतन्यः परमात्मा सनिदानमेव संसारं हरति हरिः तस्मिन् हरावज्ञाते अविदिते जगत् प्रभवतीति । विष्णुमायाविवर्त जगदित्यर्थः । तर्हि किं निवर्तकमज्ञानस्येति चेत् , तद्विरोधि तत्त्वज्ञानमित्याह- अथास्तमयत इत्यादिना ।। २२ ॥
ननु मायाद्वारेणापि कारणत्वाद् विकारित्वं प्रासं विष्णोरित्याशकथाह-विकाराशका वित्यादिना । मुग्धवधूनां विलसितमिति । पालवनितालावण्यलालित्यवदविचारितरमणीयं निरवयवस्येवरस्य विकारिस्वसम्भावनमित्यर्थः ॥
शान्तं ज्योतिः। अविद्यातत्कार्यतत्सम्बन्धरहितम् । अनुदिता. नस्तनित्यप्रकाशमिति । स्वयमुत्पत्त्यादिमन्न भवति ।
"यथा विशुद्ध आकाशे सहसैवात्रमण्डलम् ।
मूत्वा विलीयते तद्वदात्मनीहाखिलं जगत् ॥" इति न्यायात् सकलप्रमाधिष्ठानभूते निष्कलाचैतन्यकताने वस्तुनि विकाराशहा न घटनां प्रावतीत्यर्थः ॥ २३ ॥
.. 'न्या परं सनि', १. 'वं बि' ग. पाठः.