________________
१९८
प्रबोषचन्द्रोदये सव्वाले नाम विश्वमुत्पद्यते । निमित्तकारणमीश्वरः। अन्यया तु सकोधमुक्तम्-माः पापे ! कथमीश्वरमेव विकारिणं कृत्वा विनाशधर्माणमुपपादयसि । ननु रे प्रधानाद् विश्वोत्पत्तिः ।
राजा--अहो दुर्मतयस्तर्कविद्या एतदपि न जानन्ति। सर्व प्रमेयजातं घटादिवत् कार्यमिति परमाणुप्रधानोपादानकारणमप्युपेक्षणीयमेवेति । अपि च, अम्भःशीतकरान्तरिक्षनगरस्वप्नेन्द्रजालादिवत्
कार्य मेयमसत्यमेतदुदयध्वंसादियुक्तं जगत् ।
तत्र साभिरिति । केवलंकर्कशदुस्तकंचूर्णधूसरितैः वैशेषिकादितार्किकवटुमिरहमपहसितेत्यर्थः । परमाणुभ्यो नाम विश्वमुत्पद्यत इति । अन्यया तु सक्रोधमिति । सत्त्वरजस्तमसां साम्यावस्था प्रधानम् । लोहितशुक्लकृष्णरूपादजादेतस्मात् प्रधानात् जगज्जायते । पुरुषस्तूदासीन इत्येवं कपिलपक्षप्रणयप्रगल्भतया बहलितकोधमभाषीत्यर्थः ॥
सर्व प्रमेयजातं कार्य मवतु, ततः किमायातमिति चेत् , तबाहपरमाणुप्रधानोपादानेति । परमाण्वादीनामपि प्रमेयत्वात् कार्यकोटिनिक्षिप्तत्वादप्रामाणिकत्वादपहेयत्वमस्य पक्षस्येति भावः । ____ एवं तावद् वादिपरिकल्पितस्याप्रामाणिकत्वोपपादनेन द्वैतेन्द्रजालस्यानिर्वचनीयत्वमुक्तम् । इदानीं तत्रैवानुमानान्तराण्युपन्यस्यति-अपि चेत्यादिना । अम्भःशीतकराणां घटशरावाधुदकप्रतिबिम्बितपीयूषकिरणानां यथा चन्द्रव्यतिरेकेणाभावः, एवं प्रतिबिम्बकल्पानां जीवानामपि बिम्बकल्पब्रह्मव्यतिरेकेणाभाव इत्येवं चित्रपञ्चमेदस्यानृतत्वमित्यर्थः । अधुना जडप्रपथमिथ्यात्वे सम्प्रतिपन्नमुदाहरणमाह-अन्तरिक्षनगरेत्यादिना। अन्तरिक्षनगरं गन्धर्वनगरम् । स्वप्नः स्पष्टः । इन्द्रजालो मायाविकृतः । बयं प्रयोगः-विमतं मिथ्या कार्यत्वाद् विभक्तत्वात् प्रमेयत्वादुत्पत्ति
१. 'ई', १. भूलभू', ३. 'लक्षण' व. ग. पाठः,