________________
षष्ठोऽङ्कः ।
་་་
पुरुषः
ततस्ततः ।
उपनिषत् - ततोऽहं मीमांसामभिमन्त्रय प्रस्थिता ।
--
पुरुषः ततस्ततः
उपनिषत् - ततो मया बहुभिः शिष्यैरुपास्यमानास्तर्कविद्या अवलोकिताः ।
काचिद् द्वित्रिविशेषकल्पनपरा न्यायैः परा तन्वती वादं सच्छलजातिनिग्रहमयैर्जल्पं वितण्डामपि । अन्या तु प्रकृतेर्विभज्य पुरुषस्योदाहरन्ती भिदां तत्त्वानां गणनापरा महदहङ्कारादिसर्गक्रमैः ॥ २१ ॥ पुरुषः ततस्ततः ।
उपनिषत् -- तथैवाहं ताः समुपस्थिता । ताभिश्चानुयुक्तया मया तदेव कर्मोपाहृतं - 'यस्माद्विश्वमित्यादि । तत्र ताभिः सप्रकाशोपहासमुक्तम्-आः वाचाले ! परमाणुभ्यो
तासां तर्कविद्यानां मध्ये काचित् कश्यपपुत्रकल्पिता गुणवद् द्रव्यमित्यादिन्यायैर्द्रव्यगुणादिस्वरूपनिर्णयपरा सद्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः षडेव पदार्थाः तत्कल्पनपरा । द्वित्रिविशेषकल्पनपरा द्वित्र्यादिबुद्धिहेतुर्विशेषो नाम कश्चिदस्तीति कल्पनपरा । नैयायिकमतानुसारिणीत्यर्थः । अपरा तु कणाद भाषिता " प्रमाणतर्कसाधनोपलम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः" इति वादकथालक्षणलक्षितवादकथानिर्णयावसानं तन्वाना । तत्रैवान्या तु "छलजातिनिग्रहस्थानः पक्षप्रतिपक्षपरिग्रहेणैव क्रियमाणो जल्पः”, “स एव प्रतिपक्ष स्थापनाहीना वितण्डा" इत्येवंविधं जल्पं वितण्डां च तन्वाना काचिद् वैशेषिकादीनां तर्कमुद्रा दृष्टेत्यर्थः । अन्या तु कापि कपिलकल्पिता अव्यक्तमद्ददद्दड्डारादिक्रमेण तत्त्वं व्यवस्थापयन्ती प्रकृतेः पुरुषस्य भेदमुदाहरन्ती । एवंविधसामयप्रक्रिया च मया विलोकितेत्यर्थः ॥ २१ ॥
१. 'णविद्याद्र' स. ग. घ. पाठः,