________________
१९६
प्रबोधचन्द्रोदये सन्यास्ने
( सहर्षम् ) साधु कुमारिलस्वामिन् ! साधु । प्रा
राजा
ज्ञोऽस्यायुष्मान् भव ।
द्वौ तौ सुपर्णौ सयुजा सखायौ समानवृक्षं परिषस्वजाते । एकस्तयोः पिप्पलमत्ति पक्व - मन्यस्त्वनश्नन्नभिचाकशीति ॥ २० ॥
"यदीयशक्त्यनाविष्टं जगत् स्पन्दितुमक्षमम् । युक्तिभिस्तमपह्नोतुं कः शक्तः परमेश्वरम् ॥”
इति ॥ १९ ॥
साधु समीचीनं कौमारिलदर्शनमिति सभाजयन् अभिहितेश्वरसद्भावप्रकाशकं मन्त्रं प्रदर्शयति राजा विवेकः - साध्वित्यादिना ।
•
द्वौ जीवपरमात्मानौ । सुपर्णौ सुरनरंसूकरयोनिप्रापकपुण्यापुण्यलक्षणं सुष्ठु शोभनं पर्णं पत्रं पक्षः विद्यत ययोः तौ सुपर्णौ । नन्वीश्वरस्य धर्माधर्मसम्बन्धाभावादविक्रियस्यासङ्गस्य कथं पक्षित्वमिति चेद्, नायं दोषः । छत्रिन्यायेनौपचारिकत्वात् पक्षित्वस्य । तथाहि - यथा खलु लोके पथि गच्छतां पान्थानां छत्रिणो गच्छन्तीत्येकेनापि छत्रिणा बहूनां छत्रित्वो - पचारो भवति, एवमेकेनापि पक्षिणा द्वौ सुपर्णाविति व्यपदेशः । कालत्रये - Sपि सदैव वर्तमानत्वात् सयुजौ । समानाख्यत्वात् सखायौ । समान एव हृदयपुण्डरीकस्थल एवोपलभ्यमानत्वात् समानतेजस्त्वाद्वा सखायावित्यर्थः । समानं साधारणं वृक्षं विनाशि शरीरमित्यर्थः । ननु जीवकर्मोपार्जित एव देहः कथं साधारणः स्यात् । सत्यम् । तथापीश्वरेण नियम्यतया देहस्य तत्सम्बन्धाद् भवति साधारण्यमिति न विरोध इति । तयोः जीवेश्वरयोमध्ये । एको जीवः । पिप्पलं कर्मफलम् । मेर्वादिदेशापेक्षया शरीरपातादिकालापेक्षया च पक्वं परिणतम् आभिमुख्येनोपस्थितमत्ति अनुभवति । अन्यः पुनरीश्वरोऽनश्चन् अभोक्तैव सन् अभिचाकशीति साक्षित्वेन सर्वं संपश्यन् वर्तत इत्यर्थः ॥ २० ॥
१. 'रबोनि', २. 'जौ सखायौ' ग. पाठः .